तदाहुर्य आहिताग्निराग्रयणेनानिष्ट्वा नवान्नम्प्राश्नीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वैश्वानराय द्वादशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वैश्वानरो अजीजनत्पृष्टो दिवि पृष्टो अग्निः पृथिव्यामित्याहुतिं वाहवनीये जुहुयादग्नये वैश्वानराय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि कपालं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽश्विभ्यां द्विकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अश्विना वर्तिरस्मदा गोमता नासत्या रथेनेत्याहुतिं वाहवनीये जुहुयादश्विभ्यां स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि पवित्रं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये पवित्रवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये पवित्रं ते विततम्ब्रह्मणस्पते तपोसः पवित्रं विततं दिवस्पद इति आहुतिं वाहवनीये जुहुयादग्नये पवित्रवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि हिरण्यं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये हिरण्यवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये हिरण्य-केशो रजसो विसार आ ते सुपर्णा अमिनन्तँ एवैरिति आहुतिं वाहवनीये जुहुयादग्नये हिरण्यवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि प्रातरस्नातोऽग्निहोत्रं जुहुयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वरुणायाष्टाकपा-लम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्स त्वं नो अग्नेऽवमो भवोतीत्याहुतिं वाहवनीये जुहुयादग्नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि सूतकान्नम्प्राश्नीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नाये तन्तुमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये तन्तुं तन्व-न्रजसो भानुमन्विह्यक्षानहो नह्यतनोत सोम्या इति आहुतिं वाहवनीये जुहुयादग्नये तन्तुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्जीवे मृतशब्दं श्रुत्वा का तत्र प्रायश्चित्तिरिति सोऽग्नाये सुरभिमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निर्होता न्यसीदद्यजीयान्साध्वीमकर्देववीतिं नो अद्येत्याहुतिं वाहवनीये जुहुयादग्नये सुरभिमते स्वाहेति सा तत्र प्रायश्चित्ति-स्तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽग्नये मरुत्वते त्रयोदशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेवेत्याहुतिं वाहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुरपत्नीकोऽप्यग्निहोत्रमाहरेन्नाहरेदिति आहरे-दित्याहुर्यदि नाहरेदनद्धा पुरुषः कोऽनद्धापुरुष इति न देवान्न पितॄन्न मनुष्यानिति तस्मादपत्नीकोऽप्यग्निहोत्रमाहरेत्तदेषाभि यज्ञगाथा गीयते १५
यजेत्सौत्रामण्यामपत्नीकोऽप्यसोमपः मातापितृभ्यामनृणार्थाद्यजेति वचनाच्छ्रुतिरिति तस्मात्सौम्यं याजयेत् ९