०८

विश्वास-प्रस्तुतिः

तदाहुर्य आहिताग्निरुपवसथे ऽश्रु कुर्वीत का तत्र प्रायश्चित्तिरिति ।

Haug

(The Penances when the Agnihotri Sheds Tears, or Breaks his Vow, or Neglects the Performance of the Darśapûrṇimâ Isți, or when he allows his Fires to go out.)

They ask, When an Agnihotri on the day previous to the sacrifice should shed tears, by which the Puroḍāśa might be sullied, what is the penance for it?

मूलम्

तदाहुर्य आहिताग्निरुपवसथे ऽश्रु कुर्वीत का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

सो ऽग्नये व्रतभृते ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतभृच्छुचिर्व्रतानि बिभ्रद्व्रतपा अदब्ध इति ।

Haug

He must offer to Agni Vratabhṛit (Agni, the bearer of vows) a Puroḍāśa, consisting of eight pieces, under the recital of the following Anuvākyā and Yājyā : tvam agne vratabhṛit śuchir (Aśv. Śr. S. 3, 11) vratāni bibhrad vratapā (Aśv. Śr. S. 3, 11).[9]

Haug - Notes

[9]The Anuvâkyâ is according to Aśval : त्वमग्ने व्रतभृच्छुचिरग्ने देवानिहावह । उप यशं हविश्व नः ॥

The Yajyâ is : व्रतानि बिभ्रदव्रतपा अदब्धो यजानो देवानजरः सुवीरः । दधद्रत्नामि सुमृलीको अग्ने गोपाय नो जीवसे जातवेदः ॥

मूलम्

सो ऽग्नये व्रतभृते ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतभृच्छुचिर्व्रतानि बिभ्रद्व्रतपा अदब्ध इति ।

विश्वास-प्रस्तुतिः

आहुतिं वा ऽऽहवनीये जुहुयादग्नये व्रतभृते स्वाहेति ।

Haug

Or, he may sacrifice (melted butter), under the recital of, to Agni vratabhṛit Svāhā ! in the Ahavaniya fire.

मूलम्

आहुतिं वा ऽऽहवनीये जुहुयादग्नये व्रतभृते स्वाहेति ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance for it.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

तदाहुर्य आहिताग्निरुपवसथे ऽव्रत्यमापद्येत का तत्र प्रायश्चित्तिरिति ।

Haug

They ask, When an Agnihotri should do something contrary to his vow (religion) on the day previous to the sacrifice, what is the penance for it?

मूलम्

तदाहुर्य आहिताग्निरुपवसथे ऽव्रत्यमापद्येत का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

सो ऽग्नये व्रतपतये ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीति ।

Haug

He must offer a Puroḍāśa, consisting of eight pieces to Agni vratapati (Agni, the lord of vows), under the recital of the following Anuvākyā and Yājyā : tvam agne vratapā asi (S, 11, 1); yad vo vayam pramināma (10, 2, 4).

मूलम्

सो ऽग्नये व्रतपतये ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानीति ।

विश्वास-प्रस्तुतिः

आहुतिं वा ऽऽहवनीये जुहुयादग्नये व्रतपतये स्वाहेति ।

Haug

Or, he may sacrifice (melted butter), under the recital of, to Agni vratapati Svāhā ! in the Ahavaniya fire.

मूलम्

आहुतिं वा ऽऽहवनीये जुहुयादग्नये व्रतपतये स्वाहेति ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance for it.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

तदाहुर्य आहिताग्निरमावास्यां पौर्णमासीं वा ऽतीयात्का तत्र प्रायश्चित्तिरिति ।

Haug

They ask, When an Agnihotri should neglect the celebration of the New Moon or Full Moon sacrifices, what is the penance for it?

मूलम्

तदाहुर्य आहिताग्निरमावास्यां पौर्णमासीं वा ऽतीयात्का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

सो ऽग्नये पथिकृते ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्मेति ।

Haug

He must offer to Agni pathikṛit (paver of ways) a Puroḍāśa, consisting of eight pieces, under the recital of the following Anukāyā and Yājyā : vettha hi vedho adhvana (6 , 16, 3); ā devānām api (10, 2, 3).

मूलम्

सो ऽग्नये पथिकृते ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्मेति ।

विश्वास-प्रस्तुतिः

आहुतिं वा ऽऽहवनीये जुहुयादग्नये पथिकृते स्वाहेति ।

Haug

Or, he may sacrifice (melted butter), under the recital of, to Agni Pathikṛit Svāhā ! in the Ahavanīya fire.

मूलम्

आहुतिं वा ऽऽहवनीये जुहुयादग्नये पथिकृते स्वाहेति ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance for it.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

तदाहुर्यस्य सर्व एवाग्नय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति ।

Haug

They ask, When all (three) fires of an Agnihotri should go out, what is the penance for it?

मूलम्

तदाहुर्यस्य सर्व एवाग्नय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

सो ऽग्नये तपस्वते जनद्वते पावकवते ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्विति ।

Haug

He must offer to Agni tapasvat, janadvat and pākavat, a Puroḍāśa, consisting of eight pieces, under the recital of the following Anuvākyā and Yājyā : āyāhi tapasā janeṣu (Aśv. Śr. S. 3, 11); ā no yāhi tapasā (Aśv. Śr. S. 3, 11).[10]

Haug - Notes

[10]The Anuvâkyâ is : आयाहि तपसा जनेष्वग्रे पावको अचिर्षा । उपेमां सुष्टुतिं मम ॥

The Yâjyâ is : आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हम्या देवेषु नो दधत् ॥

मूलम्

सो ऽग्नये तपस्वते जनद्वते पावकवते ऽष्टाकपालं पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये आयाहि तपसा जनेष्वा नो याहि तपसा जनेष्विति ।

विश्वास-प्रस्तुतिः

आहुतिं वा ऽऽहवनीये जुहुयादग्नये तपस्वते जनद्वते पावकवते स्वाहेति ।

Haug

Or, he may sacrifice (melted butter) in the Ahavanyia fire, under the recital of, to Agni tapasvat, janadvat pākavat, Svāhā !

मूलम्

आहुतिं वा ऽऽहवनीये जुहुयादग्नये तपस्वते जनद्वते पावकवते स्वाहेति ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance for it.

मूलम्

सा तत्र प्रायश्चित्तिः ।