तदाहुर्यस्याग्नावग्निमुद्धरेयुः का तत्र प्रायश्चित्तिरिति स यद्यनुपश्येदुदूह्य पूर्वमपरं निदध्याद्यद्यु नानुपश्येत्सोऽग्नयेऽग्निवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य या-ज्यानुवक्ये अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनेत्याहुतिं वाहवनीये जुहुया-दग्नयेऽग्निवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयौ मिथः संसृज्येयातां का तत्र प्रायश्चित्तिरिति सोऽग्नये वीतयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्न आ याहि वीतये यो अग्निं देववीतय इत्याहुतिं वाहवनीये जुहुयादग्नये वीतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्व एवाग्नयो मिथः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये विविचये-ऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये स्वर्ण वस्तोरुषसामरोचि त्वामग्ने मानुषीरीळते विश इत्याहुतिं वाहवनीये जुहुयादग्नये विविचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयो अन्यैरग्निभिः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये क्षामवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्या-नुवाक्ये अक्रन्ददग्नु स्तनयन्निव द्यौरधा यथा नः पितरः परास इत्याहुतिं वाहवनीये जुहुयादग्नये क्षामवते स्वाहेति स तात्र प्रायश्चित्तिः ६