तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत का तत्र प्रायश्चित्तिरिति सर्वमेवैन-त्स्रुच्यभिपर्यासिच्य प्राङुदेत्याहवनीये हैतां समिधमभ्यादधात्यथोत्तरत आह-वनीयस्योष्णम्भस्म निरूह्य जुहुयान्मनसा वा प्राजापत्यया वर्चा तद्धुतं चाहुतं च स यद्येकस्मिनुन्नीते यदि द्वयोरेष एव कल्पस्तच्चेद्व्यपनेतुं शक्नुया-न्निष्षिच्यैतद्दुष्टमदुष्टमभिपर्यासिच्य तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्दते वा का तत्र प्रायश्चित्तिरिति तदद्भिरुपनिनयेच्छान्त्यै शान्तिर्वा आपोऽथैनद्दक्षिणेन पाणि-नाभिमृश्य जपति दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्र विणमाष्टान्तरिक्षं तृतीयम्पितॄन्यज्ञोऽगात्ततो मा द्र विणमाष्ट पृथिवीं तृतीयम्मनुष्यान्यज्ञोऽगात्ततो मा द्र विणमाष्ट ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं जपति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै सा तत्र प्राय-श्चित्तिस्तदाहुर्यस्याग्निहोत्रमधिश्रितम्प्राङुदायन्स्खलते वापि वा भ्रंशते का तत्र प्रायश्चित्तिरिति स यद्युपनिवर्तयेत्स्वर्गाल्लोकाद्यजमानमावर्तयेदत्रैवास्मा उ-पविष्टायैतमग्निहोत्रपरीशेषमाहरेयुस्तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिस्तदाहुरथ यदि स्रुग्भिद्येत का तत्र प्रायश्चित्तिरित्यन्याम्स्रुचमाहृत्य जुहुयादथैतां स्रुचम्भिन्नामाहवनीयेऽभ्यादध्यात्प्राग्दण्डाम्प्रत्यक्पुष्करां सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याहवनीये हाग्निर्विद्येताथ गार्हपत्य उपशाम्येत्का तत्र प्रायश्चित्तिरिति स यदि प्राञ्चमुद्धरेत्प्रायतनाच्च्यवेत यत्प्रत्यञ्चमसुरवद्यज्ञं तन्वीत यन्मन्थेद्भ्रातृव्यं यजमानस्य जनयेद्यदनुगमयेत्प्राणो यजमानं जह्यात्सर्वमेवैनं सहभस्मानम्समोप्य गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्सा तत्र
प्रायश्चित्तिः ५