०४

तदाहुर्यस्य सायंदुग्धं सांनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरिति प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतराम्भक्तिमातच्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य प्रातर्दुग्धं संनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वा पुरोळाशां तस्य स्थाने निरुप्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वेति समानं सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वापहरेयुर्वा का तत्र प्रायश्चित्तिरित्याज्यस्यैनानि यथादेवतम्परिकल्प्य तयाज्यहविषेष्ट्या यजेतातोऽन्यामिष्टिमनुल्बणां तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः ४