०४

विश्वास-प्रस्तुतिः

तदाहुर्यस्य सायं दुग्धं सांनाय्यं दुष्येद्वा ऽपहरेद्वा का तत्र प्रायश्चित्तिरिति ।

Haug

(On the Penances in the case of the Sānnāyya being Spoiled.)

They ask, If the Sānnāyya which was milked on the evening becomes spoiled or is lost (during the night), what is the penance for it?

मूलम्

तदाहुर्यस्य सायं दुग्धं सांनाय्यं दुष्येद्वा ऽपहरेद्वा का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतरां भक्तिमातच्य तेन यजेत ।

Haug

(The answer is) The Agnihotri shall divide the milk of the morning into two parts, and after having curdled one part of it, he may offer it.

मूलम्

प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतरां भक्तिमातच्य तेन यजेत ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

तदाहुर्यस्य प्रातर्दुग्धं सांनाय्यं दुष्येद्वा ऽपहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वा पुरोळाशं तस्य स्थाने निरुप्य तेन यजेत ।

Haug

They ask, if the Sānnāyya which was milked on the morning becomes spoiled or is lost, what is the penance? (The answer is) He must prepare a Puroḍāśa, for Indra and Mahendra, divide it instead of the milk, into the parts required, and then sacrifice it.

मूलम्

तदाहुर्यस्य प्रातर्दुग्धं सांनाय्यं दुष्येद्वा ऽपहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वा पुरोळाशं तस्य स्थाने निरुप्य तेन यजेत ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येद्वा ऽपहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वेति समानम् ।

Haug

They ask, If all the milk (of the morning and evening) of the Sānnāyya becomes spoiled or is lost, what is the penance for it? The penance is made in the same way by offering the Indra or Mahendra Puroḍāśa (as in the preceding case).

मूलम्

तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येद्वा ऽपहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वेति समानम् ।

विश्वास-प्रस्तुतिः

सा तत्र प्रायश्चित्तिः ।

Haug

This is the penance.

मूलम्

सा तत्र प्रायश्चित्तिः ।

विश्वास-प्रस्तुतिः

तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वा ऽपहरेयुर्वा का तत्र प्रायश्चित्तिरिति ।

Haug

They ask, If all the offerings (Puroḍāśa, curds, milk) become spoiled or are lost, what is the penance for it?

मूलम्

तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वा ऽपहरेयुर्वा का तत्र प्रायश्चित्तिरिति ।

विश्वास-प्रस्तुतिः

आज्यस्यैनानि यथादेवतं परिकल्प्य तया ऽऽज्यहविषेष्ट्या यजेत ।

Haug

He ought to prepare all these offerings with melted butter, and, having apportioned to the several gods their respective parts, should sacrifice this Ajyahavis (offerings with melted butter) as an Iṣṭi.

मूलम्

आज्यस्यैनानि यथादेवतं परिकल्प्य तया ऽऽज्यहविषेष्ट्या यजेत ।

विश्वास-प्रस्तुतिः

अतो ऽन्यामिष्टिमनुल्बणां तन्वीत ।

Haug

Then he ought to prepare another Iṣṭi all smooth and even.

मूलम्

अतो ऽन्यामिष्टिमनुल्बणां तन्वीत ।

विश्वास-प्रस्तुतिः

यज्ञो यज्ञस्य प्रायश्चित्तिः ।

Haug

This sacrifice performed (in the regular way) is the penance for the first which had been spoiled.

मूलम्

यज्ञो यज्ञस्य प्रायश्चित्तिः ।