तदाहुर्य आहिताग्निरुपवसथे म्रियेत कथमस्य यज्ञः स्यादिति नैनं याजयेदिति आहुरनभिप्राप्तो हि यज्ञम्भवतीति तदाहुर्य आहिताग्निरधिश्रितेऽग्निहोत्रे सांनाय्ये वा हविष्षु वा म्रियेत का तत्र प्रायश्चित्तिरित्यत्रैवैनान्यनुपर्यादध्याद्यथा सर्वाणि संदह्येरन्सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निरासन्नेषु हविष्षु म्रियेत का तत्र प्रायश्चित्तिरिति याभ्य एव तानी देवताभ्यो हवींषि गृहीतानी भवन्ति ताभ्यः स्वाहेत्येवैनान्याहवनीये सर्वहुन्ति जुहुयात्सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निः प्रवसन्म्रियेत कथमस्याग्निहोत्रं स्यादित्यभिवान्यवत्सायाः पयसा जुहुयादन्यदिवैतत्पयो यदभिवान्यवत्साया अन्यदिवैतदग्निहोत्रं यत्प्रेतस्यापि वा यत एव कुतश्च पयसा जुहुयुरथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धीरन्ना शरीराणामाहर्तोरिति यदि शरीराणि न विद्येरन्पर्णशरः षष्टिं त्रीणि च शतान्याहृत्य तेषाम्पुरुषरूपकमिव कृतिवा तस्मिंस्तामावृतं कुर्युरथैना-ञ्छरीरैराहृतैः संस्पर्श्योद्वासयेयुरध्यर्धशतं काये सक्थिनी द्विपञ्चाशे च विंशे
चोरू द्विपञ्चविंशे शेषां तु शिरस्युपरि दध्यात्सा तत्र प्रायश्चित्ति २