विश्वास-प्रस्तुतिः
अथातः पशोर्विभक्तिः ।
Haug
(The Distribution of the Different Parts of the Sacrificial Animal among the Priests.)
Now follows the division of the different parts of the sacrificial animal (among the priests).
मूलम्
अथातः पशोर्विभक्तिः ।
विश्वास-प्रस्तुतिः
तस्य विभागं वक्ष्यामः ।
Haug
We shall describe it[1].
Haug - Notes
[1]The same piece is found in Aśv. Śr. S. 12, 9.
मूलम्
तस्य विभागं वक्ष्यामः ।
विश्वास-प्रस्तुतिः
हनू सजिह्वे प्रस्तोतुः ।
Haug
The two jawbones with the tongue are to be given to the Prastotar;
मूलम्
हनू सजिह्वे प्रस्तोतुः ।
विश्वास-प्रस्तुतिः
श्येनं वक्ष उद्गातुः ।
Haug
the breast in the form of an eagle to the Udgātar;
मूलम्
श्येनं वक्ष उद्गातुः ।
विश्वास-प्रस्तुतिः
कण्ठः काकुद्रः प्रतिहर्तुः ।
Haug
the throat with the palate to the Pratihartar;
मूलम्
कण्ठः काकुद्रः प्रतिहर्तुः ।
विश्वास-प्रस्तुतिः
दक्षिणा श्रोणिर्होतुः ।
Haug
the lower part of the right loins the Hotar;
मूलम्
दक्षिणा श्रोणिर्होतुः ।
विश्वास-प्रस्तुतिः
सव्य ब्रह्मणः ।
Haug
the left to the Brahmā;
मूलम्
सव्य ब्रह्मणः ।
विश्वास-प्रस्तुतिः
दक्षिणं सक्थि मैत्रावरुणस्य ।
Haug
the right thigh to the Maitrāvaruṇa;
मूलम्
दक्षिणं सक्थि मैत्रावरुणस्य ।
विश्वास-प्रस्तुतिः
सव्यम्ब्राह्मणाच्छंसिनः ।
Haug
the left to the Brāhmaṇāchhaṁsi;
मूलम्
सव्यम्ब्राह्मणाच्छंसिनः ।
विश्वास-प्रस्तुतिः
दक्षिणम्पार्श्वं सांसमध्वर्योः ।
Haug
the right side with the shoulder to the Adhvaryu;
मूलम्
दक्षिणम्पार्श्वं सांसमध्वर्योः ।
विश्वास-प्रस्तुतिः
सव्यमुपगातॄणाम् ।
Haug
the left side to those who accompany the chants;[2]
Haug - Notes
[2]The Upagâtris accompany the chant of the Sâma singers with certain syllables which correspond to the Pratigâra of the Adhvaryu. This accompaniment is called upagânam. It differs according to the different Sâmans. At the Bahiṣ-pavamâna Stotra at the morning libation, the upagânam of the Upagâtris is ho. Besides, the sacrificer has to make an upagânam also. This is om at the Bahiṣ-pavamâna Stotra.
मूलम्
सव्यमुपगातॄणाम् ।
विश्वास-प्रस्तुतिः
सव्यों ऽसः प्रतिप्रस्थातुः ।
Haug
the left shoulder to the Pratipasthātar;
मूलम्
सव्यों ऽसः प्रतिप्रस्थातुः ।
विश्वास-प्रस्तुतिः
दक्षिणं दोर्नेष्टुः ।
Haug
the lower part of the right arm to the Neṣṭar;
मूलम्
दक्षिणं दोर्नेष्टुः ।
विश्वास-प्रस्तुतिः
सव्यं पोतुः ।
Haug
the lower part of the left arm to the Potar;
मूलम्
सव्यं पोतुः ।
विश्वास-प्रस्तुतिः
दक्षिण ऊरुरच्छावाकस्य ।
Haug
the upper part of the right thigh to the Achhāvāka;
मूलम्
दक्षिण ऊरुरच्छावाकस्य ।
विश्वास-प्रस्तुतिः
सव्य आग्नीध्रस्य ।
Haug
the left to the Agnidhra;
मूलम्
सव्य आग्नीध्रस्य ।
विश्वास-प्रस्तुतिः
दक्षिणो बाहुरात्रेयस्य ।
Haug
the upper part of the right arm to Atreya[3];
Haug - Notes
[3]The Atreya who is here mentioned as a receiver of a share in the sacrificial animal, is no officiating priest. But the circumstance that he receives gold for his Dakṣiņā, and that it is given to him before the other priests (save the Agnîdhra), as we learn from the Kâtîya Śrâuta Sutras 10, 2, 21 shows, that he had a certain right to a principal share in all sacrificial donations. Atreya, meaning only a descendant of the Atrigotra, the right appears to have been hereditary in the family of the ancient Riṣi Atri.
मूलम्
दक्षिणो बाहुरात्रेयस्य ।
विश्वास-प्रस्तुतिः
सव्यः सदस्यस्य ।
Haug
the left to the Sadasya;
मूलम्
सव्यः सदस्यस्य ।
विश्वास-प्रस्तुतिः
सदं चानूकं च गृहपतेः ।
Haug
the back bone and the urinal bladder to the Gṛihapati (sacrificer);
मूलम्
सदं चानूकं च गृहपतेः ।
विश्वास-प्रस्तुतिः
दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य ।
Haug
the right feet to the Gṛihapati who gives a feasting;
मूलम्
दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य ।
विश्वास-प्रस्तुतिः
सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्य ।
Haug
the left feet to the wife of that Gṛihapati who gives a feasting;
मूलम्
सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्य ।
विश्वास-प्रस्तुतिः
औष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात् ।
Haug
the upper lip is common to both (the Gṛihapati and his wife), which is to be divided by the Gṛihapati.
मूलम्
औष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्यात् ।
विश्वास-प्रस्तुतिः
जाघनीं पत्नीभ्यो हरन्ति तां ब्राह्मणाय दद्युः ।
Haug
They offer the tail of the animal to wives, but they should give it to a Brāhmaṇa;
मूलम्
जाघनीं पत्नीभ्यो हरन्ति तां ब्राह्मणाय दद्युः ।
विश्वास-प्रस्तुतिः
स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः ।
Haug
the fleshy processes (maṇikāh) on the neck and three gristles (kākasāḥ) to the Grāvastut;
मूलम्
स्कन्ध्याश्च मणिकास्तिस्रश्च कीकसा ग्रावस्तुतः ।
विश्वास-प्रस्तुतिः
तिस्रश्चैव कीकसा अर्धं च वैकर्तस्योन्नेतुः ।
Haug
three other gristles and one-half of the fleshy part on the back (vaikartta[4]) to the Unnetar;
Haug - Notes
[4]A large piece of flesh.- Sây.
मूलम्
तिस्रश्चैव कीकसा अर्धं च वैकर्तस्योन्नेतुः ।
विश्वास-प्रस्तुतिः
अर्धं चैव वैकर्तस्य क्लोमा च शमितुः ।
Haug
the other half of the fleshy part on the neck and the left lobe (kloma[5]) to the slaughterer,
Haug - Notes
[5]The piece of flesh which is on the side of the heart.- Sây.
मूलम्
अर्धं चैव वैकर्तस्य क्लोमा च शमितुः ।
विश्वास-प्रस्तुतिः
तद्ब्राह्मणाय दद्याद्यद्यब्राह्मणः स्यात् ।
Haug
who should present it to a Brāhmaṇa, if he himself would not happen to be a Brāhmaṇa.
मूलम्
तद्ब्राह्मणाय दद्याद्यद्यब्राह्मणः स्यात् ।
विश्वास-प्रस्तुतिः
शिरः सुब्रह्मण्यायै यः श्वःसुत्यां प्राह ।
Haug
The head is to be given to the Subrahmaṇyā, who spoke, śvaḥ sutyām (to-morrow at the Soma sacrifice);[6]
Haug - Notes
[6]See the note to 6, 3.
मूलम्
शिरः सुब्रह्मण्यायै यः श्वःसुत्यां प्राह ।
विश्वास-प्रस्तुतिः
तस्याजिनम् ।
Haug
the skin belongs to him (the Subrahmaṇyā);
मूलम्
तस्याजिनम् ।
विश्वास-प्रस्तुतिः
इळा सर्वेषां होतुर्वा ।
Haug
that part of the sacrificial animal at a Soma sacrifice which belongs to Iḷā (sacrificial food) is common to all the priests; only for the Hotar it is optional.
मूलम्
इळा सर्वेषां होतुर्वा ।
विश्वास-प्रस्तुतिः
ता वा एताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति ।
Haug
All these portions of the sacrificial animal amount to thirty-six single pieces, each of which represents the pāda (foot) of a verse by which the sacrifice is carried up.
मूलम्
ता वा एताः षट्त्रिंशतमेकपदा यज्ञं वहन्ति ।
विश्वास-प्रस्तुतिः
षट्त्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः ।
Haug
The Bṛihatî metre consists of thirty-six syllables; and the heavenly worlds are of the Bṛihatî nature.
मूलम्
षट्त्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः ।
विश्वास-प्रस्तुतिः
प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति ।
Haug
In this way (by dividing the animal into thirty-six parts), they gain life (in this world) and the heavens,
मूलम्
प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति ।
विश्वास-प्रस्तुतिः
प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति ।
Haug
and having become established in both (this and that world), they walk there.
मूलम्
प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति ।
विश्वास-प्रस्तुतिः
स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्ति ।
Haug
To those who divide the sacrificial animal in the way mentioned, it becomes the guide to heaven.
मूलम्
स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्ति ।
विश्वास-प्रस्तुतिः
अथ ये ऽतो ऽन्यथा तद्यथा सेळगा वा पापकृतो वा पशुं विमथ्नीरंस्तादृक्तत् ।
Haug
But those who make the division otherwise, are like scoundrels and miscreants who kill an animal merely (for gratifying their lust after flesh).
मूलम्
अथ ये ऽतो ऽन्यथा तद्यथा सेळगा वा पापकृतो वा पशुं विमथ्नीरंस्तादृक्तत् ।
विश्वास-प्रस्तुतिः
तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्देवभागो विदांचकार ।
Haug
This division of the sacrificial animal was invented by the Riṣi Devabhāga, a son of Śruta.[7]
Haug - Notes
[7]Thus Sây., but the translation, a Śrotriya, i.e., sacrificial priest (acquainted with the Śruti would suit better.
मूलम्
तां वा एतां पशोर्विभक्तिं श्रौत ऋषिर्देवभागो विदांचकार ।
विश्वास-प्रस्तुतिः
तामु हाप्रोच्यैवास्माल्लोकादुच्चक्रामत् ।
Haug
When he was departing from this life, he did not entrust (the secret to any one).
मूलम्
तामु हाप्रोच्यैवास्माल्लोकादुच्चक्रामत् ।
विश्वास-प्रस्तुतिः
तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ।
Haug
But a supernatural being communicated it to Girija, the son of Babhru.
मूलम्
तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ।
विश्वास-प्रस्तुतिः
ततो हैनामेतदर्वाङ्मनुष्या अधीयते ऽधीयते ।
Haug
Since his time, men study it.
मूलम्
ततो हैनामेतदर्वाङ्मनुष्या अधीयते ऽधीयते ।