३६

विश्वास-प्रस्तुतिः

भूतेच्छदः शंसति ।

Haug

(Bhûte-chhad, Ahanasya, Dadhikrâvan, Pâvamânya, and the Indra Bṛihaspati Verses.)

He now repeats the Bhûte-chhad[33] (dazzling power) verses.

Haug - Notes

[33]Tvam indra Śarma ṛiṇa, A. V. 20, 135, 11-13.

मूलम्

भूतेच्छदः शंसति ।

विश्वास-प्रस्तुतिः

भूतेच्छद्भिर्वै देवा असुरानुपासचन्तोतेव युद्धेनोतेव मायया ।

Haug

By means of these verses, the Devas approached the Asuras by fighting and cunning.

मूलम्

भूतेच्छद्भिर्वै देवा असुरानुपासचन्तोतेव युद्धेनोतेव मायया ।

विश्वास-प्रस्तुतिः

तेषां वै देवा असुराणाम्भूतेच्छद्भिरेव भूतं छादयित्वाथैनानत्यायंस्तथैवैतद्यजमाना भूतेच्छद्भिरेवाप्रियस्य भ्रातृव्यस्य भूतं छादयित्वाथैनमतियन्ति ।

Haug

For, by means of them, they dazzled the power of the Asuras, and consequently overcame them. In the same way, the sacrificer who repeats these verses, overcomes his enemy.

मूलम्

तेषां वै देवा असुराणाम्भूतेच्छद्भिरेव भूतं छादयित्वाथैनानत्यायंस्तथैवैतद्यजमाना भूतेच्छद्भिरेवाप्रियस्य भ्रातृव्यस्य भूतं छादयित्वाथैनमतियन्ति ।

विश्वास-प्रस्तुतिः

ता अर्धर्चशः शंसति प्रतिष्ठाया एव ।

Haug

They are repeated half verse by half verse, to obtain a footing.

मूलम्

ता अर्धर्चशः शंसति प्रतिष्ठाया एव ।

विश्वास-प्रस्तुतिः

आहनस्याः शंसति ।

Haug

He now repeats the Ahanasya[34] verses.

Haug - Notes

[34]Lit., penis; for âhanas, âhana, means penis, derived just as jaghanyâ, i.e., from the root han, to strike. Sây. explains it by “maithunam,” i.e., cohabitation.

मूलम्

आहनस्याः शंसति ।

विश्वास-प्रस्तुतिः

आहनस्याद्वै रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ।

Haug

For the sperm is poured forth from the Ahanasya (penis); and from the sperm creatures are born. In this way, the priest makes offspring (to the sacrificer).

मूलम्

आहनस्याद्वै रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ।

विश्वास-प्रस्तुतिः

ता दश शंसति दशाक्षरा विराळन्नं विराळन्नाद्रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ।

Haug

These verses are ten in number; for the Virâj has ten syllables, and the Virâj is food; from food the sperm (is produced) and can (consequently) be poured forth, and from sperm creatures are produced.

मूलम्

ता दश शंसति दशाक्षरा विराळन्नं विराळन्नाद्रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ।

विश्वास-प्रस्तुतिः

ता न्यूङ्खयत्यन्नं वै न्यूङ्खो ऽन्नाद्रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ।

Haug

He repeats them with Nyûṅkha; for this is food.

मूलम्

ता न्यूङ्खयत्यन्नं वै न्यूङ्खो ऽन्नाद्रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ।

विश्वास-प्रस्तुतिः

दधिक्राव्णो अकारिषमिति दाधिक्रीं शंसति ।

Haug

He now repeats the Dadhikrâvan verse, dadhikrâvano akârisham (Atharv. V. 20, 137, 3).

मूलम्

दधिक्राव्णो अकारिषमिति दाधिक्रीं शंसति ।

विश्वास-प्रस्तुतिः

देवपवित्रं वै दधिक्रा इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेण वाचम्पुनीते ।

Haug

For the Dadhikra is the purifier of the gods. For he (the priest) spoke such (words[35]) as are to be regarded as the speech containing the most excellent semen.[36] By means of this purifier of the gods, he purifies speech (rîch).

Haug - Notes

[35]Yad asya aṁhubhedyâh, A. V. 20, 136, 1-10.

[36]The repetition of the Ahanasya verses is to be understood.

मूलम्

देवपवित्रं वै दधिक्रा इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेण वाचम्पुनीते ।

विश्वास-प्रस्तुतिः

सानुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन च्छन्दसा वाचम्पुनीते ।

Haug

The verse is in the Anuṣṭubh metre; for Vâch is Anuṣṭubh, and thus she becomes purified by her own metre.

मूलम्

सानुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन च्छन्दसा वाचम्पुनीते ।

विश्वास-प्रस्तुतिः

सुतासो मधुमत्तमा इति पावमानीः शंसति ।

Haug

He now repeats the Pâvamânya verses, sutâso madhumatamâ (9, 101, 4);

मूलम्

सुतासो मधुमत्तमा इति पावमानीः शंसति ।

विश्वास-प्रस्तुतिः

देवपवित्रं वै पावमान्य इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेणैव वाचम्पुनीते ।

Haug

for the Pâvamânyas (purification verses) are the purification of the gods. For he spoke such (words) as are to be regarded as the speech containing the most excellent semen. By means of this purifier of the gods, he purifies speech.

मूलम्

देवपवित्रं वै पावमान्य इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेणैव वाचम्पुनीते ।

विश्वास-प्रस्तुतिः

ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुप्तत्स्वेनैव च्छन्दसा वाचम्पुनीते ।

Haug

They are Anuṣṭubhs; for the Vâch is Anuṣṭubh, and thus she becomes purified by her own metre.

मूलम्

ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुप्तत्स्वेनैव च्छन्दसा वाचम्पुनीते ।

विश्वास-प्रस्तुतिः

अव द्रप्सो अंशुमतीमतिष्ठदित्यैन्द्राबार्हस्पत्यं तृचं शंसति ।

Haug

He now repeats the Indra-Bṛihaspati triplet of verses commencing, avâ drapso aṁśumatîm (8, 85, 13-15).

मूलम्

अव द्रप्सो अंशुमतीमतिष्ठदित्यैन्द्राबार्हस्पत्यं तृचं शंसति ।

विश्वास-प्रस्तुतिः

विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाह इति ।

Haug

At the end of it (verse 15) there is said, “Indra, assisted by Bṛihaspati, conquered the tribes of the despisers of the Devas when they encountered (the Devas on the battle-field).”

मूलम्

विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाह इति ।

विश्वास-प्रस्तुतिः

असुरविशं ह वै देवानभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजासुर्यं वर्णमभिदासन्तमपाहंस्तथैवैतद्यजमाना इन्द्राबृहस्पतिभ्यामेव युजासुर्यं वर्णमभिदासन्तमपघ्नते ।

Haug

For the Asura nation, when they had marched out to fight against the Devas, was everywhere subjugated by Indra with the assistance of Bṛihaspati, and driven away. Therefore the sacrificers subdue and drive away by means of Indra and Bṛihaspati the nation of the Asuras (asurya varṇa).[37]

Haug - Notes

[37]That these are the Zoroastrians, is beyond any doubt. See my Essays on the Sacred Language, Writings, &c., of the Parsis, page 226-30.

मूलम्

असुरविशं ह वै देवानभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजासुर्यं वर्णमभिदासन्तमपाहंस्तथैवैतद्यजमाना इन्द्राबृहस्पतिभ्यामेव युजासुर्यं वर्णमभिदासन्तमपघ्नते ।

विश्वास-प्रस्तुतिः

तदाहुः संशंसे३त्षष्ठे ऽहा३न् न संशंसे३त् इति ।

Haug

They ask, Should the Hotṛi-priest, on the sixth day, repeat (the hymns) along (with the additional Śastras?).

मूलम्

तदाहुः संशंसे३त्षष्ठे ऽहा३न् न संशंसे३त् इति ।

विश्वास-प्रस्तुतिः

संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशंसेदिति ।

Haug

He concludes with a Brihaspati verse; thence he ought not to repeat (the hymns) along (with the additional Śastras).

मूलम्

संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशंसेदिति ।

विश्वास-प्रस्तुतिः

अथ खल्वाहुर्नैव संशंसेत् ।

Gemini

They say, one should not recite (the two hymns) together.

मूलम्

अथ खल्वाहुर्नैव संशंसेत् ।

विश्वास-प्रस्तुतिः

स्वर्गो वै लोकः षष्ठमहः ।

Gemini

The sixth day is the heavenly world.

मूलम्

स्वर्गो वै लोकः षष्ठमहः ।

विश्वास-प्रस्तुतिः

असमायी वै स्वर्गो लोकः ।

Gemini

The heavenly world is without equal.

मूलम्

असमायी वै स्वर्गो लोकः ।

विश्वास-प्रस्तुतिः

कश्चिद्वै स्वर्गे लोके समेतीति ।

Gemini

Who, indeed, comes together with another in the heavenly world?

मूलम्

कश्चिद्वै स्वर्गे लोके समेतीति ।

विश्वास-प्रस्तुतिः

स यत्संशंसेत्समानं तत्कुर्यात् ।

Gemini

If he were to recite them together, he would make that (day) common (like the others).

मूलम्

स यत्संशंसेत्समानं तत्कुर्यात् ।

विश्वास-प्रस्तुतिः

अथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपम् ।

Gemini

But that he does not recite them together, that is the form of the heavenly world.

मूलम्

अथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपम् ।

विश्वास-प्रस्तुतिः

तस्मान्न संशंसेत् ।

Gemini

Therefore, he should not recite them together.

मूलम्

तस्मान्न संशंसेत् ।

विश्वास-प्रस्तुतिः

यदेव न संशंसतीँ एतानि वा अत्रोक्थानि नाभानेदिष्ठो वालखिल्या वृषाकपिरेवयामरुत् ।

Gemini

Because he does not recite them together, these are the Ukthas here: the Nabhānediṣṭha, the Vālakhilyas, the Vṛṣākapi, and the Evayāmarut.

मूलम्

यदेव न संशंसतीँ एतानि वा अत्रोक्थानि नाभानेदिष्ठो वालखिल्या वृषाकपिरेवयामरुत् ।

विश्वास-प्रस्तुतिः

स यत्संशंसेदपैव स एतेषु कामं राध्नुयात् ।

Gemini

If he were to recite them together, he would surely fail to obtain his desire through them.

मूलम्

स यत्संशंसेदपैव स एतेषु कामं राध्नुयात् ।

विश्वास-प्रस्तुतिः

ऐन्द्रो वृषाकपिः सर्वाणि च्छन्दांस्यैतशप्रलापः ।

Gemini

The Vṛṣākapi hymn belongs to Indra; the Aitaśa-pralāpa contains all meters.

मूलम्

ऐन्द्रो वृषाकपिः सर्वाणि च्छन्दांस्यैतशप्रलापः ।

विश्वास-प्रस्तुतिः

तत्र स काम उपाप्तो य ऐन्द्रे जागते ।

Gemini

In it, that desire is obtained which is in the hymn to Indra in the Jagatī meter.

मूलम्

तत्र स काम उपाप्तो य ऐन्द्रे जागते ।

विश्वास-प्रस्तुतिः

अथेदमैन्द्राबार्हस्पत्यं सूक्तमैन्द्राबार्हस्पत्या परिधानीया ।

Gemini

Then comes this hymn to Indra-Bṛhaspati; the concluding verse (paridhānīyā) is addressed to Indra-Bṛhaspati.

मूलम्

अथेदमैन्द्राबार्हस्पत्यं सूक्तमैन्द्राबार्हस्पत्या परिधानीया ।

विश्वास-प्रस्तुतिः

तस्मान्न संशंसेन्न संशंसेत् ।

Gemini

Therefore, one should not recite them together, one should not recite them together.

मूलम्

तस्मान्न संशंसेन्न संशंसेत् ।