३६

भूतेछदः शंसति भूतेछद्भिर्वै देवा असुरानुपासचन्तोतेव युद्धेनोतेव मायया तेषां वै देवा असुराणाम्भूतेछद्भिरेव भूतं छादयित्वाथैनानत्यायंस्तथैवैतद्यजमाना भूतेछद्भिरेवाप्रियस्य भ्रातृव्यस्य भूतं छादयित्वाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एवाहनस्याः शंसत्याहनस्याद्वै रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ता दश शंसति दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्रे तः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ता न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नाद्रे तः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति दधिक्राव्णो अकारिषमिति दाधिक्रीं शंसति देवपवित्रं वै दधिक्रा इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेण वाचम्पुनीते सानुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन छन्दसा वाचम्पुनीते सुतासो मधुमत्तमा इति पावमानीः शंसति देवपवित्रं वै पावमान्य इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेणैव वाचम्पुनीते ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुप्तत्स्वेनैव छन्दसा वाचम्पुनीतेऽव द्र प्सो अंशुमतीमतिष्ठदित्यैन्द्रा बार्हस्पत्यं तृचं शंसति विशो अदेवीरभ्याच-रन्तीर्बृहस्पतिना युजेन्द्रः ससाह इत्यसुरविशं ह वै देवानभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजासुर्यं वर्णमभिदासन्तमपाहंस्तथैवैतद्यजमाना इन्द्रा -बृहस्पतिभ्यामेव युजासुर्यं वर्णमभिदासन्तमपघ्नते तदाहुः संशंसेत्षष्ठेऽहान् न संशंसेदिति संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशं-सेदित्यथो खल्वाहुर्नैव संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपं तस्मान्न संशंसेद्यदेव न संशंसतीँ एतानि वा अत्रोक्थानि नाभानेदिष्ठो वालखिल्या वृषाकपिरेवयामरुत्स यत्संशंसेदपैव स एतेषु कामं राध्नुयादैन्द्रो वृषाकपिः सर्वाणि छन्दांस्यैतशप्रलापस्तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्रा बर्हस्पत्यं सूक्तमैन्द्रा बार्हस्पत्या परिधानीय

तस्मान्न संशंसेन्न संशंसेत् ३६

इति षष्ठपञ्चिका समाप्ता