ते हादित्यानङ्गिरसोऽयाजयंस्तेभ्य याजयद्भ्य इमाम्पृथिवीम्पूर्णां दक्षिणानामद-दुस्तानियम्प्रतिगृहीतातपत्तां न्यवृञ्जन्सा सिंही भूत्वा विजृम्भन्ती जनान-चरत्तस्याः शोचत्या इमे प्रदराः प्रादीर्यन्त येऽस्या इमे प्रदराः समेव हैव ततः पुरा तस्मादाहुर्न निवृत्तदक्षिणाम्प्रतिगृह्णीयान्नेन्मा शुचा विद्धा शुचा विध्या-दिति यदि त्वेनाम्प्रतिगृह्णीयादप्रियायैनाम्भ्रातृव्याय दद्यात्परा हैव भवत्यथ योऽसौ तपतीँ एषोऽश्वः श्वेतो रूपं कृत्वाश्वाभिधान्यपिहितेनात्मना प्रतिचक्रम इमं वो नयाम इति स एष देवनीथोऽनूच्यत आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्तां ह जरितर्न प्रत्यायन्निति न हि त इमाम्प्रत्यायंस्तामु ह जरितः प्रत्यायन्निति प्रति हि तेऽमुमायंस्तां ह जरितर्न प्रत्यगृभ्णन्निति न हि त इमाम्प्रत्यगृभ्णंस्तामु ह जरितं प्रत्यगृभ्णन्निति प्रति हि तेऽमुमगृभ्णन्नहा नेदसन्नविचेतनानीत्येष ह वा अह्नां विचेतयिता जज्ञा नेदसन्नपुरोगवास इति दक्षिणा वै यज्ञानाम्पुरोगवी यथा ह वा इदमनोऽपुरोगवं रिष्यत्येवं हैव यज्ञोऽदक्षिणो रिष्यति तस्मादाहुर्दातव्यैव यज्ञे दक्षिणा भवत्यप्यल्पिकाप्युत श्वेत आशुपत्वा उतो पद्याभिर्जविष्ठः उतेमाशु मानम्पिपर्ति आदित्या रुद्रा वसवस्त्वेळते इदं राधः प्रति गृभ्णीथ्यङ्गि र इति प्रतिग्रहमेव तद्रा धस ऐछन्निदं राधो बृहत्पृथु देवा ददत्वा वरन्तद्वो अस्तु सुचेतनम्युष्मे अस्तु दिवे-दिवे प्रत्येव गृभायतेति प्रत्येवैनं तदजग्रभैषं तं वा एतं देवनीथं शंसति पदावग्राहं
यथा निविदं तस्योत्तमेन पदेन प्रणौति यथा निविदः ३५