३४

देयनीथं शंसत्यादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हाङ्गिरसः पूर्वे श्वःसुत्यां स्वर्गस्य लोकस्य ददृशु-स्तेऽग्निम्प्रजिघ्युरङ्गिरसां वा एकोऽग्निः -परेह्यादित्येभ्यः श्वःसुत्यां स्वर्गस्य लोकस्य प्रब्रूहीति ते हादित्या अग्निमेव दृष्ट्वा सद्यःसुत्यां स्वर्गस्य लोकस्य ददृशुस्तानेत्याब्रवीच् छ्वःसुत्यां वः स्वर्गस्य लोकस्य प्रब्रूम इति ते होचुरथ वयं तुभ्यं सद्यःसुत्यां स्वर्गस्य लोकस्य प्रब्रूमस्त्वयैव वयं होत्रा स्वर्गं लोकमेष्याम इति स तथेत्युक्त्वा प्रत्युक्तः पुनराजगाम ते होचुः प्रावोचाः इति प्रावोचमिति होवाचाथो मे प्रतिप्रावोचन्निति नो हि न प्रत्यज्ञास्थाः इति प्रति वा अज्ञासमिति होवाच यशसा वा एषोऽभ्यैति य आर्त्विज्येन तं यः प्रतिरुन्धेद्यशः स प्रतिरुन्धेत्तस्मान्न प्रत्यरौत्सीति यदि त्वस्मादपोज्जिगांसेद्यज्ञेनास्मादपोदियात्यदि यदि त्वयज्यः स्वयमपोदितं तस्मात् ३४