३३

ऐतशप्रलापं शंसत्यैतशो ह वै मुनिरग्नेरायुर्ददर्श यज्ञस्यायातयाममिति हैक आहुः सोऽब्रवीत्पुत्रान्पुत्रका अग्नेरायुरदर्शं तदभिलपिष्यामि यत्किंच वदामि तन्मे मा परिगातेति स प्रत्यपद्यतैता अश्वा आ प्लवन्ते प्रतीपम्प्रातिसत्वनमिति तस्याभ्यग्निरैतशायन एत्याकालेऽभिहाय मुखमप्यगृह्णाददृपन्नः पितेति तं होवाचापेह्यलसोऽभूर्यो मे वाचमवधीः शतायुं गामकरिष्यं सहस्रायुम्पुरुष-म्पापिष्ठां ते प्रजां करोमि यो मेत्थमसक्था इति तस्मादाहुरभ्यग्नय ऐतशायना और्वाणाम्पापिष्ठा इति तं बैके भूयांसं शंसन्ति स न निषेधेद्यावत्कामं शंसेत्येव ब्रूयादायुर्वा ऐतशप्रलाप आयुरेव तद्यजमानस्य प्रतारयति य एवं वेद यदेवैतशप्रलापाः छन्दसां हैष रसो यदैतशप्रलापश्छन्दस्स्वेव तद्र सं दधाति सरसैर्हास्य छन्दोभिरिष्टम्भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद यद्वेवैतशप्रलापाः अयातयामा वा अक्षितिरैतशप्रलापोऽयातयामा मे यज्ञे-ऽसदक्षितिर्मे यज्ञेऽसदिति तं वा एतमैतशप्रलापं शंसति पदावग्राहं यथा निविदं तस्योत्तमेन पदेन प्रणौति यथा निविदः प्रवल्हिकाः शंसति प्रव-ल्हिकाभिर्वै देवा असुरान्प्रवल्ह्याथैनानत्यायन्स्तथैवैतद्यजमानाः प्रवल्हि-काभिरेवाप्रियम्भ्रातृव्यम्प्रवल्ह्याथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एवाजिज्ञसेन्याः शंसत्याजिज्ञसेन्याभिर्वै देवा असुरानाज्ञायाथैनानत्यायं-स्तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियम्भ्रातृव्यमाज्ञायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एव प्रतिराधं शंसति प्रतिराधेन वै देवा असुरान्प्रतिराध्याथैनानत्यायंस्तथैवैतद्यजमानाः प्रतिराधेनैवाप्रियाम्भ्रातृव्य-म्प्रतिराध्याथैनमतियन्त्यतिवादं शंसत्यतिवादेन वै देवा असुरानत्युद्या-थैनानत्यायंस्तथैवैतद्यजमाना अतिवादेनैवाप्रियम्भ्रातृव्यमत्युद्याथैनमतियन्ति

तमर्धर्चशः शंसति प्रतिष्ठाया एव ३३