३२

छन्दसां वै षष्ठेनाह्नाप्तानां रसोऽत्यनेदत्स प्रजापतिरबिभेत्पराङयं छन्दसां रसो लोकानत्येष्यतीति तम्परस्ताच्छन्दोभिः पर्यगृह्नान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभः पारिक्षित्या जगत्याः कारव्ययानुष्टुभस्तत्पुनश्छन्दस्सु रसमदधा-त्सरसैर्हास्य छन्दोभिरिष्टम्भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद नाराशंसीः शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते य एवं वेद यदेव नाराशंसीः शन्सन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः शंसन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेस्तन्न्या यमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खो रैभीः शंसति रेभन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेश्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खः पारिक्षितीः शंसत्यग्निर्वै परिक्षिदग्निर्हीमाः प्रजाः परिक्षेत्यग्निं हीमाः प्रजाः परिक्षियन्त्यग्नेरेव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद यदेव पारिक्षिती३ःसंवत्सरो वै परिक्षित्संवत्सरो हीमाः प्रजाः परिक्षेति संवत्सरं हीमाः प्रजाः परिक्षियन्ति संवत्सरस्यैव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खः कारव्याः शंसति देवा वै यत्किंच कल्याणं कर्माकुर्वं-स्तत्कारव्याभिराप्नुवंस्तथैवैतद्यजमाना यत्किंच कल्याणं कर्म कुर्वन्ति तत्का-रव्याभिराप्नुवन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषा-कपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खो दिशां कॢप्तीः शंसति दिश एव तत्कल्पयति ताः पञ्च शंसति पञ्च वा इमा दिशश्चतस्रस्तिरश्च्य एकोर्ध्वा तासु न न्यूङ्खयेन्नेवैव च निनर्देन्नेदिमा दिशो न्युङ्खयानीति ता अर्धर्चशः शंसति प्रतिष्ठाया एव जनकल्पाः शंसति प्रजा वै जनकल्पा दिश एव तत्कल्पयित्वा तासु प्रजाः प्रतिष्ठापयति तासु न न्यूङ्खयेन्नेवैव च निनर्देन्नेदिमाः प्रजा न्यूङ्खयानीति ता अर्धर्चशः शंसति प्रतिष्ठाया एवेन्द्र गाथाः शंस-तीन्द्र गाथाभिर्वै देवा असुरानभिगायाथैनानत्यायंस्तथैवैतद्यजमाना इन्द्र गा-थाभिरेवाप्रियम्भ्रातृव्यमभिगायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया

एव ३२