तदाहुर्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठेऽहनि कल्पते यज्ञः कल्पते यजमानस्य प्रजातिः कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावारुणो वालखिल्याः शंसति ते प्राणा -रेतो वा अग्रेऽथ प्राणा -एवम्ब्राह्मणाच्छन्स्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति स आत्मा -रेतो वा अग्रेऽथात्मा -कथमत्र यजमानस्य प्रजातिः कथम्प्राणा अविकॢप्ता भवन्तीति यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथा गर्भो योन्यामन्तरेवं सम्भवञ्छेते न वै सकृदेवाग्रे सर्वः सम्भवत्येकैकं वा अङ्गं सम्भवतः सम्भवतीति सर्वाणि चेत्समानेऽहन्क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिरथैतं होतैवयामरुतं तृतीयसवने शंसति तद्यास्य प्रतिष्ठा तस्यामेवैनं तदन्ततः
प्रतिष्ठापयति ३१