३१

विश्वास-प्रस्तुतिः

तदाहुर्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठे ऽहनि कल्पते यज्ञः कल्पते यजमानस्य प्रजातिः कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावारुणो वालखिल्याः शंसति ते प्राणा रेतो वा अग्रे ऽथ प्राणाः ।

Haug

(Queries on some particulars of the application of these auxiliary hymns. Their meaning).

They ask, Why do they not repeat the Nābhānediṣṭha in the Viśvajit, Atirātra, and on the sixth day of the Śaḷaha, when they make the sacrifice complete and reproduce the sacrificer (in a mystical way), although the Maitrāvaruṇa repeats the Vālakhilyas which represent the breaths, but not the sperm (as the Nābhānediṣṭha does), whilst the sperm must precede the breaths (in the act of generation)?

मूलम्

तदाहुर्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठे ऽहनि कल्पते यज्ञः कल्पते यजमानस्य प्रजातिः कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावारुणो वालखिल्याः शंसति ते प्राणा रेतो वा अग्रे ऽथ प्राणाः ।

विश्वास-प्रस्तुतिः

एवम्ब्राह्मणाच्छन्स्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति स आत्मा रेतो वा अग्रे ऽथात्मा ।

Haug

In the same way why does the Brāhmaṇāchchhaṁsī repeat the Vṛiṣâkapi when the Nābhānediṣṭha is not repeated? For the Vṛiṣâkapi is the soul, whilst the sperm represented by the Nābhānediṣṭha hymn precedes the making of the soul.

मूलम्

एवम्ब्राह्मणाच्छन्स्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति स आत्मा रेतो वा अग्रे ऽथात्मा ।

विश्वास-प्रस्तुतिः

कथमत्र यजमानस्य प्रजातिः कथम्प्राणा अविकॢप्ता भवन्तीति ।

Haug

How then can the sacrificer be reproduced in this way? How can that be effected, if his life is not formed (by the act of generation)?

मूलम्

कथमत्र यजमानस्य प्रजातिः कथम्प्राणा अविकॢप्ता भवन्तीति ।

विश्वास-प्रस्तुतिः

यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति ।

Haug

For the priests produce the sacrificer (make him anew) by means of the sacrificial process.

मूलम्

यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति ।

विश्वास-प्रस्तुतिः

स यथा गर्भो योन्यामन्तरेवं सम्भवञ्छेते न वै सकृदेवाग्रे सर्वः सम्भवत्येकैकं वा अङ्गं सम्भवतः सम्भवतीति ।

Haug

Therefore the whole being of the sacrificer cannot be made at once at the beginning, but just as an embryo which, lying in the womb, developes itself (grows gradually).

मूलम्

स यथा गर्भो योन्यामन्तरेवं सम्भवञ्छेते न वै सकृदेवाग्रे सर्वः सम्भवत्येकैकं वा अङ्गं सम्भवतः सम्भवतीति ।

विश्वास-प्रस्तुतिः

सर्वाणि चेत्समाने ऽहन्क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः ।

Haug

If he has all limbs (only then he is entire). The priests should make them all on the same day. If thus the sacrifice is made ready, then the reproduction of the sacrificer is effected.

मूलम्

सर्वाणि चेत्समाने ऽहन्क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः ।

विश्वास-प्रस्तुतिः

अथैतं होतैवयामरुतं तृतीयसवने शंसति ।

Haug

The Hotar repeats the Evayâmarut at the third libation.

मूलम्

अथैतं होतैवयामरुतं तृतीयसवने शंसति ।

विश्वास-प्रस्तुतिः

तद्यास्य प्रतिष्ठा तस्यामेवैनं तदन्ततः प्रतिष्ठापयति ।

Haug

For this is the sacrificer’s footing on which the Hotar places him at the end.

मूलम्

तद्यास्य प्रतिष्ठा तस्यामेवैनं तदन्ततः प्रतिष्ठापयति ।