३०

एवयामरुतं शंसति प्रतिष्ठा वा एवयामरुत्प्रतिष्ठामेवास्य तत्कल्पयति तं न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नाद्यमेवास्मिंस्तद्दधाति स जागतो वातिजागतो वा सर्वं वा इदं जागतं वातिजागतं वा स उ मारुत आपो वै मरुत आपो-ऽन्नमभिपूर्वमेवास्मिंस्तदन्नाद्यं दधाति तान्येतानि सहचराणीत्याचक्षते नाभा-नेदिष्ठं वालखिल्या वृषाकपिमेवयामरुतं तानि सह वा शंसेत्सह वा न शंसेद्यदेनानि नाना शंसेद्यथा पुरुषं वा रेतो वा विछिन्द्यात्तादृक्तत्तस्मादेनानि सह वा शंसेत्सह वा न शंसेत्स ह बुलिल आश्वतर आश्विर्वैश्वजितो होता सन्नीक्षां चक्र एषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे मध्यंदिनमभि प्रत्येतोर्हन्ताहमित्थमेवयामरुतं शंसयानीति तद्ध तथा शंसयां चकार तद्ध तथा शस्यामने गौश्ल आजगाम स होवाच होतः कथा ते शस्त्रं विचक्रम्प्लवत इति किह्य्ह्यभूदित्येवयामरुदयमुत्तरतः शस्यत इति स होवाचैन्द्रो वै मध्यंदिनः कथेन्द्र म्मध्यंदिनान्निनीषसीति नेन्द्र म्मध्यंदिना-न्निनीषामीति होवाच छन्दस्त्विदममध्यंदिनसाच्ययं जागतो वातिजागतो वा सर्वं वा इदं जागतं वातिजागतं वा स उ मारुतो मैव शंसिष्टेति स होवाचारमाछावकेत्यथ हास्मिन्ननुशासनमीषे स होवाचैन्द्र मेष विष्णुन्यङ्गं शंसत्वथ त्वमेतं होतरुपरिष्टाद्रौ द्र यैधाय्यायै पुरस्तान्मारुतस्याप्यस्याथा इति

तद्ध तथा शंसयां चकार तदिदमप्येतर्हि तथैव शस्यते ३०