२९

सुकीर्तिं शंसति देवयोनिर्वै सुकीर्तिस्तद्यज्ञाद्देवयोन्यै यजमानम्प्रजनयति वृषाकपिं शंसत्यात्मा वै वृषाकपिरात्मानमेवास्य तत्कल्पयति तं न्यूङ्खयत्यन्नं वै न्यूङ्खस्तदस्मै जातायान्नाद्यम्प्रतिदधाति यथा कुमाराय स्तनं स पाङ्क्तो भवति पाङ्क्तोऽयम्पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानः संस्करोति तम्ब्राह्मणाच्छंसी जनयित्वाछावाकाय

सम्प्रयछत्येतस्य त्वम्प्रतिष्ठां कल्पयेति २९