विश्वास-प्रस्तुतिः
वालखिल्याः शंसति ।
Haug
(The Vâlakhilyas repeated by the Maitrâvâruṇa.)
He (the Maitrâvaruṇa) now repeats the Vâlakhilyas.
मूलम्
वालखिल्याः शंसति ।
विश्वास-प्रस्तुतिः
प्राणा वै वालखिल्याः ।
Haug
For the Vâlakhilyas are the breaths.
मूलम्
प्राणा वै वालखिल्याः ।
विश्वास-प्रस्तुतिः
प्राणानेवास्य तत्कल्पयति ।
Haug
In this way he forms the breaths of the sacrificer.
मूलम्
प्राणानेवास्य तत्कल्पयति ।
विश्वास-प्रस्तुतिः
ता विहृताः शंसति ।
Haug
He repeats them by mixing two verses together.
मूलम्
ता विहृताः शंसति ।
विश्वास-प्रस्तुतिः
विहृता वा इमे प्राणाः प्राणेनापानो ऽपानेन व्यानः ।
Haug
For these breaths are mutually mixed together,[4] with the Prâṇa the Apâna, and with the Apâna the Vyâna.
Haug - Notes
[4]The six first Valakhilya hymns are repeated in three sets, each comprising two hymns, see page 419.
मूलम्
विहृता वा इमे प्राणाः प्राणेनापानो ऽपानेन व्यानः ।
विश्वास-प्रस्तुतिः
स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये ।
Haug
The two first hymns are repeated pâda by pâda; the second set (third and fourth) half verse by half verse, and the third set (fifth and sixth) verse by verse.
मूलम्
स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये ।
विश्वास-प्रस्तुतिः
स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति ।
Haug
By repeating the first set, he makes the breath and speech.
मूलम्
स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति ।
विश्वास-प्रस्तुतिः
यद्द्वितीये चक्षुश्च तन्मनश्च विहरति ।
Haug
By repeating the second set, he makes the eye and mind.
मूलम्
यद्द्वितीये चक्षुश्च तन्मनश्च विहरति ।
विश्वास-प्रस्तुतिः
यत्तृतीये श्रोत्रं च तदात्मानं च विहरति ।
Haug
By repeating the third set, he makes the ear and soul.
मूलम्
यत्तृतीये श्रोत्रं च तदात्मानं च विहरति ।
विश्वास-प्रस्तुतिः
ते हैके सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति ।
Haug
Some take, when repeating these Vâlakhilya Pragâthas, always two Bṛihatîs, and two Satobṛihatîs together.
मूलम्
ते हैके सह बृहत्यौ सह सतोबृहत्यौ विहरन्ति ।
विश्वास-प्रस्तुतिः
तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्ते ।
Haug
Though the wish obtainable by mixing the verses is obtained by this way of recital, yet no Pragâthas[5] are thus formed.
Haug - Notes
[5]The form required for the Pragâtha metre is the combination of the Bṛihatî with the Satobṛihatî. If two Bṛihatîs are taken together, no Pragâtha is formed, nor if two Satobṛihatîs are joined.
मूलम्
तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्ते ।
विश्वास-प्रस्तुतिः
अतिमर्शमेव विहरेत्तथा वै प्रगाथाः कल्पन्ते ।
Haug
He must repeat them by inserting an additional pâda;[6] then thus are the Pragâthas formed.
Haug - Notes
[6]See above page 419. This is called Atimarśa.
मूलम्
अतिमर्शमेव विहरेत्तथा वै प्रगाथाः कल्पन्ते ।
विश्वास-प्रस्तुतिः
प्रगाथा वै वालखिल्यास्तस्मादतिमर्शमेव विहरेत् ।
Haug
The Vâlakhilya verses are the Pragâthas. Therefore he must repeat them by inserting a pâda (in order to obtain the Pragâtha metre).
मूलम्
प्रगाथा वै वालखिल्यास्तस्मादतिमर्शमेव विहरेत् ।
विश्वास-प्रस्तुतिः
यदेवातिमर्शमात्मा वै बृहती प्राणाः सतोबृहती ।
Haug
The Bṛihatî of the Pragâtha is the soul, the Satobṛihatî the life.
मूलम्
यदेवातिमर्शमात्मा वै बृहती प्राणाः सतोबृहती ।
विश्वास-प्रस्तुतिः
स बृहतीमशंसीत्स आत्माथ सतोबृहतीं ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानम्प्राणैः परिबृहन्नेति ।
Haug
If he has repeated the Bṛihatî, then the soul, (is made); and if he has repeated the Satobṛihatî, the vital airs (are made). By thus repeating the Bṛihatî and the Satobṛihatî, he surrounds the soul with the vital airs.
मूलम्
स बृहतीमशंसीत्स आत्माथ सतोबृहतीं ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानम्प्राणैः परिबृहन्नेति ।
विश्वास-प्रस्तुतिः
तस्मादतिमर्शमेव विहरेत् ।
Haug
Therefore he must repeat the Vâlakhilyas in such a way as to obtain the Pragâtha metre.
मूलम्
तस्मादतिमर्शमेव विहरेत् ।
विश्वास-प्रस्तुतिः
यद्वेवातिमर्शम् आत्मा वै बृहती पशवः सतोबृहती ।
Haug
The Bṛihatî is the soul, and the Satobṛihatî cattle.
मूलम्
यद्वेवातिमर्शम् आत्मा वै बृहती पशवः सतोबृहती ।
विश्वास-प्रस्तुतिः
स बृहतीमशंसीत्स आत्माथ सतोबृहतीं ते पशवो ऽथ बृहतीमथ सतोबृहतीं तदात्मानम्पशुभिः परिबृहन्नेति ।
Haug
If he has repeated the Bṛihatî, then the soul (is made); and if he has repeated the Satobṛihatî, then cattle (is made). By repeating both he surrounds the soul with cattle.
मूलम्
स बृहतीमशंसीत्स आत्माथ सतोबृहतीं ते पशवो ऽथ बृहतीमथ सतोबृहतीं तदात्मानम्पशुभिः परिबृहन्नेति ।
विश्वास-प्रस्तुतिः
तस्मादतिमर्शमेव विहरेद्व्येवोत्तमे सूक्ते पर्यस्यति ।
Haug
Therefore he must repeat them by inserting a pâda (in order to obtain the Pragâtha metre).
मूलम्
तस्मादतिमर्शमेव विहरेद्व्येवोत्तमे सूक्ते पर्यस्यति ।
विश्वास-प्रस्तुतिः
स एव तयोर्विहारः ।
Haug
The two last hymns are repeated in an inverted order (first the eighth and then the seventh.)
मूलम्
स एव तयोर्विहारः ।
विश्वास-प्रस्तुतिः
तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने सम्प्रयछत्येतं त्वम्प्रजनयेति ।
Haug
The Maitrâvaruṇa after having made in this way the vital airs of the sacrificer, hands him over to the Brâhmaṇâchchhaṁsî, saying, “create him now (in the human form).”
मूलम्
तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने सम्प्रयछत्येतं त्वम्प्रजनयेति ।