२८

वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति ता विहृताः शंसति विहृता वा इमे प्राणाः प्राणेनापानोऽपानेन व्यानः स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीये चक्षुश्च तन्मनश्च विहरति यत्तृतीये श्रोत्रं च तदात्मानं च विहरति ते हैके सह बृहत्यौ सह सतोबृथत्यौ विहरन्ति तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्तेऽतिमर्शमेव विहरेत्तथा वै प्रगाथाः कल्पन्ते प्रगाथा वै वालखिल्यास्तस्मादतिमर्शमेव विहरेद्यदेवातिमर्सामात्मा वै बृहती प्राणाः सतोबृहती स बृहतीमशंसीत्स आत्माथ सतोबृहतीं ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानम्प्राणैः परिबृहन्नेति तस्मादतिमर्शमेव विहरे-द्यद्वेवातिमर्शाम् आत्मा वै बृहती पशवः सतोबृहती स बृहतीमशंसीत्स आत्माथ सतोबृहतीं ते पशवो ऽथ बृहतीमथ सतोबृहतीं तदात्मानम्पशुभिः परिबृहन्नेति तस्मादतिमर्शमेव विहरेद्व्येवोत्तमे सूक्ते पर्यस्यति स एव तयोर्विहारस्तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने सम्प्रयछत्येतं

त्वम्प्रजनयेति २८