विश्वास-प्रस्तुतिः
शिल्पानि शंसन्ति ।
Haug
(The so-called Śilpas, viz. the Nâbhânediṣṭha, Narâśaṁsa, Vâlakhilya, Sukîrti, Vṛiṣâkapi, and Evayâmarut hymns. The Kuntâpa Śâstra.)
(The Nâbhânediṣṭha and Narâśaṁsa hymns repeated by the Hotar)
They repeat the Śilpas (hymns for producing wonderful pieces of art).
मूलम्
शिल्पानि शंसन्ति ।
विश्वास-प्रस्तुतिः
देवशिल्पानि एतेषाम् वै शिल्पानाम् अनुकृतिः इह शिल्पम् अधिगयम्ते।
Haug
There are such wonder-works of the gods, and the arts in this world are to be understood as an imitation thereof.
मूलम्
देवशिल्पान्येतेषाम्वै शिल्पानामनुकृतीह शिल्पमधिगम्यते ।
विश्वास-प्रस्तुतिः
हस्ती कंसः वासः हिरण्यम् अश्वतरीरथः।
Haug
The gilded cloth spread over an elephant, the carriage to which a mule is yoked, are such a wonder-work.
मूलम्
हस्ती कंसो वासो हिरण्यमश्वतरीरथः ।
विश्वास-प्रस्तुतिः
शिल्पम् शिल्पम् ह अस्मिन् अधिगयम्ते यः एवम् वेद।
Haug
This work is understood in this world by him, who has such a knowledge.
मूलम्
शिल्पं शिल्पं हास्मिन्नधिगम्यते य एवं वेद ।
विश्वास-प्रस्तुतिः
यत् एव शिल्पानि, आत्मसंस्कृतिः वाव शिल्पानि, छन्दोमयम् वा एतैः यजमानः आत्मानम् संस्कुरुते।
Haug
The Śilpas make ready the soul, and imbue it with the knowledge of the sacred hymns. By means of them the Hotṛi-priest prepares the soul for the sacrificer.
मूलम्
यदेव शिल्पानीनात्मसंस्कृतिर्वाव शिल्पानि छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते ।
विश्वास-प्रस्तुतिः
नाभानेदिष्ठम् शंसति।
Haug
He repeats the Nâbhânediṣṭha hymn (one of the Śilpas).
मूलम्
नाभानेदिष्ठं शंसति ।
विश्वास-प्रस्तुतिः
रेतः वै नाभानेदिष्ठः।
Haug
For Nâbhânediṣṭha is the sperm.
मूलम्
रेतो वै नाभानेदिष्ठः ।
विश्वास-प्रस्तुतिः
रेतस्तत्सिञ्चति ।
Haug
In such a way he (the priest) effuses the sperm.
मूलम्
रेतस्तत्सिञ्चति ।
विश्वास-प्रस्तुतिः
तमनिरुक्तं शंसति ।
Haug
He praises him (Nâbhânediṣṭha) without mentioning his name.
मूलम्
तमनिरुक्तं शंसति ।
विश्वास-प्रस्तुतिः
अनिरुक्तं वै रेतो गुहा योन्यां सिच्यते ।
Haug
For the semen is like something unspeakable secretly poured forth into the womb.
मूलम्
अनिरुक्तं वै रेतो गुहा योन्यां सिच्यते ।
विश्वास-प्रस्तुतिः
स रेतोमिश्रो भवति ।
Haug
The sperm becomes blended.
मूलम्
स रेतोमिश्रो भवति ।
विश्वास-प्रस्तुतिः
क्ष्मया रेतः संजग्मानो निषिञ्चदिति रेतःसमृद्ध्या एव तम् ।
Haug
For when Prajâpati had carnal intercourse with his daughter, his sperm was poured forth upon the earth (and was mixed up with it).[1] This was done for making the sperm produce fruit.
Haug - Notes
[1]This is mentioned in the fifth verse of the Nâbhânediṣṭha hymn (10, 61). Prajapati’s intercourse with his daughter is alluded to in this hymn.
मूलम्
क्ष्मया रेतः संजग्मानो निषिञ्चदिति रेतःसमृद्ध्या एव तम् ।
विश्वास-प्रस्तुतिः
स नाराशंसं शंसति ।
Haug
He then repeats the Narâśaṁsa,[2]
Haug - Notes
[2]This is called the second Nâbhânediṣṭha hymn (10, 62), beginning ye yajñena. There the birth of the Angiras is spoken of.
मूलम्
स नाराशंसं शंसति ।
विश्वास-प्रस्तुतिः
प्रजा वै नरो वाक्शंसः ।
Haug
for naraḥ means “offspring,” and śaṁsah “speech.”
मूलम्
प्रजा वै नरो वाक्शंसः ।
विश्वास-प्रस्तुतिः
प्रजास्वेव तद्वाचं दधाति ।
Haug
In this way he (the priest) places speech into children (when they are born.)
मूलम्
प्रजास्वेव तद्वाचं दधाति ।
विश्वास-प्रस्तुतिः
तस्मादिमाः प्रजा वदन्त्यो जायन्ते ।
Haug
Thence children are born endowed with the faculty of speech.
मूलम्
तस्मादिमाः प्रजा वदन्त्यो जायन्ते ।
विश्वास-प्रस्तुतिः
तं हैके पुरस्ताच्छंसन्ति पुरस्तादायतना वागिति वदन्त उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः ।
Haug
Some repeat the Narâśaṁsa before (the Nâbhânediṣṭha,) saying, Speech has its place in the front (of the body); others repeat it after (the Nâbhânediṣṭha), saying, Speech has its place behind (in the hinder part of the head).
मूलम्
तं हैके पुरस्ताच्छंसन्ति पुरस्तादायतना वागिति वदन्त उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः ।
विश्वास-प्रस्तुतिः
मध्य एव शंसेन्मध्यायतना वा इयं वाक् ।
Haug
He shall recite it in the middle; for speech has its place in the middle (of the body).
मूलम्
मध्य एव शंसेन्मध्यायतना वा इयं वाक् ।
विश्वास-प्रस्तुतिः
उपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव वा इयं वाक् ।
Haug
But speech being always, as it were, nearer to the latter part (of the Nâbhânediṣṭha hymn), the Narâśaṁsa must be repeated before the Nâbhânediṣṭha is finished).[3]
Haug - Notes
[3]The Nâbhânediṣṭha hymn, idam itthâ roûdram (10, 61) consists of twenty-seven verses; after the twenty-fifth verse is finished, the following Narâśaṁsa hymn is repeated. Repeater of both the Nâbhânediṣṭha and Narâśaṁsa hymns is the Hotar.
मूलम्
उपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव वा इयं वाक् ।
विश्वास-प्रस्तुतिः
तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय सम्प्रयछत्येतस्य त्वम्प्राणान्कल्पयेति ।
Haug
The Hotar having effused the sacrificer in the shape of sperm (symbolically), gives him up to the Maitrâvaruṇa, saying, “form his breaths.”
मूलम्
तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय सम्प्रयछत्येतस्य त्वम्प्राणान्कल्पयेति ।