शिल्पानि शंसन्ति देवशिल्पान्येतेषाम्वै शिल्पानामनुकृतीह शिल्पमधिगम्यते हस्ती कंसो वासो हिरण्यमश्वतरीरथः शिल्पं शिल्पं हास्मिन्नधिगम्यते य एवं वेद यदेव शिल्पानीनात्मसंस्कृतिर्वाव शिल्पानि छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते नाभानेदिष्ठं शंसति रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहा योन्यां सिच्यते स रेतोमिश्रो भवति क्ष्मया रेतः संजग्मानो नि षिञ्चदिति रेतःसमृद्ध्या एव तं सनाराशंसं शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते तं हैके पुरस्ताच्छंसन्ति पुरस्तादायतना वागिति वदन्त उपरिष्टादेक उपरि-ष्टादायतना वागिति वदन्तो मध्य एव शंसेन्मध्यायतना वा इयं वाग् उपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव वा इयं वाक् तं होता रेतोभूतं सिक्त्वा
मैत्रावरुणाय सम्प्रयछत्येतस्य त्वम्प्राणान्कल्पयेति २७