२६

तदाहुः संशंसेत्षष्ठेऽहान् न सम्शंसेदिति संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशंसेदित्यथो खल्वाहुर्नैव संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपं तस्मान्न संशंसेद्यदेव न संशंसती३ँआत्मा वै स्तोत्रियः प्राणा वालखिल्याः स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणान्वीयाद्य एनंतत्र ब्रूयादेताभ्यां देवताभ्यां यजमानस्य प्राणान्व्यागात्प्राण एनं हास्यातिति शश्वत्तथा स्यात्तस्मान्न संशंसेत्स यदीक्षेताशंसिषं वालखिल्या हन्त पुरस्ताद्दूरोहणस्य संशंसानीति नो एव तस्याशामियात्तं यदि दर्प एव विन्देदुपरिष्टाद्दूरोहणस्यापि बहूनि शतानि शंसेद्यस्यो तत्कामाय तथा कुर्यादत्रैव तदुपाप्तमैन्द्र् यो वालखिल्यास्तासां द्वादशाक्षराणि पदानि तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्रा वरुणं सूक्तमैन्द्रा वरुणी परिधानीया तस्मान्न संशंसेत्तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं विहृता वालखिल्याः शस्यन्ते विहृतां स्तोत्राम् अविहृतामिति विहृतमिति ब्रूयादष्टाक्षरेण द्वादशाक्षरमिति तदाहुर्यथा वाव शस्त्रमेवं याज्या तिस्रो देवताः शस्यन्तेऽग्निरिन्द्रो वरुण इत्यथैन्द्रा वरुण्या यजति कथमग्निरनन्तरित इति यो वा अग्निः स वरुणस्तदप्येतदृषिणोक्तं त्वमग्ने वरुणो जायसे यदिति तद्यदेवैन्द्रा वरुण्या यजति तेनाग्निरनन्तरितोऽनन्तरितः

२६