दूरोहणं रोहति तस्योक्तम्ब्राह्मणमैन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवस्तज्जागतं स्याज्जागता वै पशवस्तन्महासूक्तं स्याद्भूयिष्ठेष्वेव तत्पशुषु यजमानम्प्रति-ष्ठापयति बरौ रोहेत्तन्महासूक्तं च जागतं चैन्द्रा वरुणे प्रतिष्ठाकामस्य रोहे-देतद्देवता वा एषा होत्रैतत्प्रतिष्ठा यदैन्द्रा वरुणा तदेनत्स्वायामेव प्रतिष्ठाया-मन्ततः प्रतिष्ठापयति यदेवैन्द्रा वरुणाइ!३
एषा ह वा अत्र निविन्निविदा वै कामा आप्यन्ते स यद्यैन्द्रा वरुणे रोहेत्सौपर्णे रोहेत्तदुपाप्त ऐन्द्रा वरुणे काम उपाप्तः सौपर्णे २५