२४

देवा वै वले गाः पर्यपश्यंस्ता यज्ञेनैवेप्संस्ताः षष्ठेनाह्नाप्नुवंस्ते प्रातःसवने नभाकेन वलमनभयंस्तं यदनभयाँ अश्रथयन्नेवैनं तत्त उ तृतीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा उदाजंस्तथैवैतद्यजमानाः प्रातःसवने नभाकेन वलं नभयन्ति तं यन्नभयन्तीँ श्रथयन्त्येवैनं तत्तस्माद्धोत्रकाः प्रातःसवने नाभाकांस्तृचाञ्छंसन्ति यः ककुभो निधारय इति मैत्रावरुणः पूर्वीष्ट इन्द्रो पमातय इति ब्राह्मणाच्छंसी ता हि मध्यम्भराणामित्यछावाकस्त उ तृटीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा आप्नुवन्ति पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीय-मृक्शस्तृतीयं स पच्छो विहरन्प्रगाथे-प्रगाथ एवैकपदां दध्यात्स वाचः कूटस्ता एताः पञ्चैकपदाश्चतस्रो दशमादह्न एका महाव्रतादथाष्टाक्षराणि माहानामनानि पदानि तेषां यावद्भिः सम्पद्येत तावन्ति शन्सेन्नेतराण्याद्रि येताथार्धर्चशो विह-रंस्ताश्चैवैकपदाः शंसेत्तानि चैवाष्टाक्षराणि माहानामनानि पदान्यथ ऋक्शो विहरंस्ताश्चैवैकपदाः शंसेत्तानि चैवाष्टाक्षराणि माहानामनानि पदानि स यत्प्रथमं षड्वालखिल्यानां सूक्तानि विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीयं चक्षुश्च तन्मनश्च विहरति यत्तृतीयं श्रोत्रं च तदात्मानं च विहरति तदुपाप्तो विहारे काम उपाप्तो वज्रे वालखिल्यासूपाप्तो वाचः कूट एकपदायामुपाप्तः प्राणकॢप्त्यामविहृतानेव चतुर्थम्प्रगाथाञ्छंसति पशवो वै प्रगाथाः पशूनामवरुद्ध्यै नात्रैकपदां व्यवदध्याद्यदत्रैकपदां व्यवदध्याद्वाचः कूटेन यजमानात्पशून्निर्हण्याद्य एनं तत्र ब्रूयाद्वाचः कूटेन यजमानात्प-शून्निरवधीरपशुमेनमकरिति शश्वत्तथा स्यात्तस्मात्तत्रैकपदां न व्यवदध्या-द्व्येवोत्तमे सूक्ते पर्यस्यति स एव तयोर्विहारस्तदेतत्सौबलाय सर्पिर्वात्सिः शशंस स होवाच भूयिष्ठानहं यजमाने पशून्पर्यग्रहैषमकनिष्ठा उ मामा-गमिष्यन्तीति तस्मै ह यथा महद्भ्य ऋत्विग्भ्य एवं निनाय तदेतत्पशव्यं च

स्वर्ग्यं च शस्त्रं तस्मादेतच्छंसति २४