२३

अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च व्यन्तरिक्षमतिरदित्यहीनं युङ्क्त एवेदि-न्द्र मिति विमुञ्चत्याहं सरस्वतीवतोर्नूनं सा त इत्यहीनं युङ्क्ते ते स्याम देव वरुण नू ष्टुत इति विमुञ्चत्येष ह वा अहीनं तन्तुमर्हति य एनं योक्तुं च विमोक्तुं च वेद तद्यच्चतुर्विंसेऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते स विमुक्तिस्तद्यच्चतुर्विंसेऽहन्नैकाहिकाभिः परिदध्युरत्राहैव यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युरथ यदहीनपरिधानीयाभिः परिदध्युर्यथा श्रान्तो-ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्नुभयीभिः परिदध्युस्तद्यथा दी-र्घाध्व उपविमोकं यायात्तादृक्तत्संततो हैषां यज्ञो भवतीँ व्यू मुञ्चन्त एकां द्वे न द्वयोः सवनयोः स्तोममतिशंसेद्दीर्घारण्यानि ह वै भवन्ति यत्र बह्वीभिः स्तोमो-ऽतिशस्यतेऽपरिमिताभिः तृतीयसवनेऽपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै संततो हास्याभ्यारब्धोऽविस्रस्तोऽहीनो भवति य एवं विद्वानहीनं

तनुते २३