विश्वास-प्रस्तुतिः
अथातो ऽहीनस्य युक्तिश्च विमुक्तिश्च ।
Haug
(How to join and disconnect the Ahînas.)
There is a joining as well as a disconnecting of the Ahina sacrifice.
मूलम्
अथातो ऽहीनस्य युक्तिश्च विमुक्तिश्च ।
विश्वास-प्रस्तुतिः
व्यन्तरिक्षमतिरदित्यहीनं युङ्क्त एवेदिन्द्रमिति विमुञ्चति ।
Haug
By the mantra vy antarikṣam atirad (8, 14, 7-9) the Brāhmaṇāchchhaṁsī joins the Ahînas (at the morning libation); by eved Indra (7. 23, 6) he dissolves them (at the midday libation).
मूलम्
व्यन्तरिक्षमतिरदित्यहीनं युङ्क्त एवेदिन्द्रमिति विमुञ्चति ।
विश्वास-प्रस्तुतिः
आहं सरस्वतीवतोर्नूनं सा त इत्यहीनं युङ्क्ते ।
Haug
By the mantra â ham sarasvatîvator (8, 38, 10) the Achchhāvāka joins them, and by nûnaṁ sā te (2, 11, 22) (he dissolves them).
मूलम्
आहं सरस्वतीवतोर्नूनं सा त इत्यहीनं युङ्क्ते ।
विश्वास-प्रस्तुतिः
ते स्याम देव वरुण नू ष्टुत इति विमुञ्चति ।
Haug
By te syâma deva Varuṇa (7,66,9) the Maitrâvaruṇa (joins them), and by nu ṣṭuta (4,16,21) he dissolves them.[12]
Haug - Notes
[12]The verbs vimuñchati as well as yuñkte are here used in an elliptical sense (उपलक्षणार्थे). To the former, yuñkte, and to the latter, vimuñchati is to be supplied, each thus implying its contrariety.
मूलम्
ते स्याम देव वरुण नू ष्टुत इति विमुञ्चति ।
विश्वास-प्रस्तुतिः
एष ह वा अहीनं तन्तुमर्हति य एनं योक्तुं च विमोक्तुं च वेद ।
Haug
He who knows how to join (at the morning libation) and to disconnect (at the midday libation) is enabled to spread the thread of the sacrificial days (Ahînas).
मूलम्
एष ह वा अहीनं तन्तुमर्हति य एनं योक्तुं च विमोक्तुं च वेद ।
विश्वास-प्रस्तुतिः
तद्यच्चतुर्विंशे ऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते स विमुक्तिः ।
Haug
Their (general) junction consists in their being joined on the Chaturviṁśa day; and their (general) disconnection in disconnecting them before the concluding Atirātra (on the Mahāvrata) day.
मूलम्
तद्यच्चतुर्विंशे ऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते स विमुक्तिः ।
विश्वास-प्रस्तुतिः
तद्यच्चतुर्विंशे ऽहन्नैकाहिकाभिः परिदध्युरत्राहैव यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युः ।
Haug
When the Hotṛi-priests would conclude on the Chaturviṁśa day with verses appropriate to the Ekāhas, then they would bring the sacrifice to a close, without performing the ceremonies referring to the Ahînas.
मूलम्
तद्यच्चतुर्विंशे ऽहन्नैकाहिकाभिः परिदध्युरत्राहैव यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युः ।
विश्वास-प्रस्तुतिः
अथ यदहीनपरिधानीयाभिः परिदध्युर्यथाश्रान्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् ।
Haug
When they would conclude with the concluding verses of the Ahîna days, then the sacrificers would be cut off, just as (a bullock) who is tired must be cut off, (from the rope, for he does not move).
मूलम्
अथ यदहीनपरिधानीयाभिः परिदध्युर्यथाश्रान्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् ।
विश्वास-प्रस्तुतिः
उभयीभिः परिदध्युस्तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत् ।
Haug
They ought to conclude with both the Ekāha and Ahîna verses, just as a man setting out on a long journey takes from station to station fresh animals.
मूलम्
उभयीभिः परिदध्युस्तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत् ।
विश्वास-प्रस्तुतिः
सन्ततो हैषां यज्ञो भवतीँ ।
Haug
Thence their sacrifice becomes connected, and they themselves (the sacrificers) find relaxation.
मूलम्
सन्ततो हैषां यज्ञो भवतीँ ।
विश्वास-प्रस्तुतिः
व्यू मुञ्चन्त एकां द्वे न द्वयोः सवनयोः स्तोममतिशंसेत् ।
Haug
He ought not to overpraise the stoma (i. e. not to repeat more verses than the singers chant) at the two (first) libations by (more than) one or two verses.
मूलम्
व्यू मुञ्चन्त एकां द्वे न द्वयोः सवनयोः स्तोममतिशंसेत् ।
विश्वास-प्रस्तुतिः
दीर्घारण्यानि ह वै भवन्ति यत्र बह्वीभिः स्तोमो ऽतिशस्यते ।
Haug
When the Stoma is overpraised with many verses, (i. e. more than two) then they become for the Hotar like extensive forests (through which he has to pass without a resting place).
मूलम्
दीर्घारण्यानि ह वै भवन्ति यत्र बह्वीभिः स्तोमो ऽतिशस्यते ।
विश्वास-प्रस्तुतिः
अपरिमिताभिः तृतीयसवने ।
Haug
At the third libation (he ought to overpraise the stoma) with an unlimited number of verses.
मूलम्
अपरिमिताभिः तृतीयसवने ।
विश्वास-प्रस्तुतिः
अपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै ।
Haug
For the heavenly world has no limits.
मूलम्
अपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै ।
विश्वास-प्रस्तुतिः
संततो हास्याभ्यारब्धो ऽविस्रस्तो ऽहीनो भवति य एवं विद्वानहीनं तनुते ।
Haug
(This serves) for obtaining the celestial world. The Ahina sacrifice of him who with such a knowledge extends it, remains, if once commenced, undisturbed.
मूलम्
संततो हास्याभ्यारब्धो ऽविस्रस्तो ऽहीनो भवति य एवं विद्वानहीनं तनुते ।