२२

अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसत्यपापाचो अभिभूते नुदस्व अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेमेत्यभयस्य रूपमभयमिव हि यन्निछति ब्रह्मणा ते ब्रह्मयुजा युनज्मीति ब्राह्मणाच्छंस्यहरहः शंसति युनज्मीति युक्तवती युक्त इव ह्यहीनोऽहीनस्य रूपमुरुं नो लोकमनु नेषि विद्वानित्यछावाकोऽहरहः शंसत्यनु नेषित्येतीव ह्यहीनोऽहीनस्य रूपं नेषीति सत्रायणरूपं ता वा एता अहरहः शस्यन्ते समानीभिः परिदध्युरोकःसारी हैषामिन्द्रो यज्ञम्भवतीं यथ ऋषभो वाशितां यथा वा गौः प्रज्ञातं गोष्ठमेवं हैषामिन्द्रो यज्ञमैव गछति न शुनंहुवीययाहीनस्य

परिदध्यात्क्षत्रियो ह राष्ट्राच्च्यवते यो हैव परो भवति तमभिह्वयति २२