२१

कस्तमिन्द्र त्वावसुं कन्नव्यो अतसीनां कदू न्वस्याकृतमिति कद्वन्तः प्रगाथा आरम्भणीया अहरहः शस्यन्ते को वै प्रजापतिः प्रजापतेराप्त्यै यदेव कद्वन्ता अन्नं वै कमन्नाद्यस्यावरुद्ध्यै यद्वेव कद्वन्ता अहरहर्वा एते शान्तान्यही-नसूक्तान्युपयुञ्जाना यन्ति तानि कद्वद्भिः प्रगाथैः शमयन्ति तान्येभ्यः शान्तानि कम्भवन्ति तान्येनाञ्छान्तानि स्वर्गं लोकमभि वहन्ति त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस्ता हैके पुरस्तात्प्रगाथानां शंसन्ति धाय्या इति वदन्तस्तत्तथा न कुर्यात्क्षत्रं वै होता विशो होत्राशंसिनः क्षत्रायैव तद्विशम्प्रत्युद्यामिनीं कुर्युः पापवस्यसं त्रिष्टुभो म इमाः सूक्तप्रतिपद इत्येव विद्यात्तद्यथा समुद्र म्प्रप्लवेरन्नेवं हैव ते प्रप्लवन्ते वे संवत्सरं वा द्वादशाहं वासते तद्यथा सैरावतीं नावम्पारकामाः समारोहेयोरेवमेवैतास्त्रिष्टुभः समारोहन्ति न ह वा एतच्छन्दो गमयित्व स्वर्गं लोकमुपावर्तते वीर्यवत्तमं हि ताभ्यो न व्याह्वयीत समानं हि छन्दोऽथो नेद्धाय्याः करवाणीति यदेनाः शंसन्ति प्रज्ञाताभिः सूक्तप्रतिपद्भिः सूक्तानि समारोहामेति यदेवैनाः शंसन्तीन्द्र मेवैताभिर्निह्वयन्ते यथ ऋषभं

वाशितायै यद्वेवैनाः शंसन्त्यहीनस्य संतत्या अहीनमेव तत्संतन्वन्ति २१