विश्वास-प्रस्तुतिः
सद्यो ह जातो वृषभः कनीन इति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति ।
Haug
(On the hymns repeated by the Maitrāvaruṇa, &c. which precede the Saṁpātas).
Before the (Ahîna) hymns are repeated, the Maitrâvaruṇa repeats every day, sadyo ha jâto vriṣabhaḥ (3, 48).
मूलम्
सद्यो ह जातो वृषभः कनीन इति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति ।
विश्वास-प्रस्तुतिः
तदेतत्सूक्तां स्वर्ग्यमेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति ।
Haug
This hymn leads to heaven; for by means of this hymn the Gods conquered the heavenly world, and the Ṛiṣis did the same; by means of it the sacrificers also conquer the heavenly world.
मूलम्
तदेतत्सूक्तां स्वर्ग्यमेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति ।
विश्वास-प्रस्तुतिः
तत् उ वैश्वामित्रम् विश्वस्य ह वै मित्रम् विश्वामित्रः आस विश्वम् ह अस्मै मित्रम् भवति तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद येषां चैवं विद्वानेतन्मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति ।
Haug
This is a Viśvāmitra hymn, for Viśvāmitra (all-friend) was the friend of all; therefore all will be friendly towards him who has this knowledge, if the Maitrāvaruṇa knowing this repeats (this hymn) every day before the Ahîna Sûktas.
मूलम्
तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद येषां चैवं विद्वानेतन्मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति ।
विश्वास-प्रस्तुतिः
तदृषभवत्पशुमद्भवति पशूनामवरुद्ध्यै ।
Haug
This hymn (sadyo ha) contains the word “bull,” and is therefore apaśumat (having cattle), serving for obtaining cattle.
मूलम्
तदृषभवत्पशुमद्भवति पशूनामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
तत्पञ्चर्चम्भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्यै ।
Haug
It consists of five verses; five-hood comprises five feet, and five-hood is food for obtaining (which this hymn is useful).
मूलम्
तत्पञ्चर्चम्भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्यै ।
विश्वास-प्रस्तुतिः
उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्धं सूक्तमहरहः शंसति ।
Haug
The Brāhmaṇāchhaṁsi repeats every day the Brahmā hymn, whice is complete, ud u brahmāṇy airata (7, 23).
मूलम्
उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्धं सूक्तमहरहः शंसति ।
विश्वास-प्रस्तुतिः
तदेतत्सूक्तं स्वर्ग्यामेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति ।
Haug
This hymn leads to heaven; by means of it the Gods conquered the heavenly world, and the Ṛiṣis did the same; by means of it the sacrificers conquered the heavenly world.
मूलम्
तदेतत्सूक्तं स्वर्ग्यामेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति ।
विश्वास-प्रस्तुतिः
तदु वासिष्ठमेतेन वै वसिष्ठ इन्द्रस्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्रस्य प्रियं लोकं गछति जयति परमं लोकं य एवं वेद ।
Haug
It is a Vasiṣṭha hymn; by means of it Vasiṣṭha obtained Indra’s favour, and conquered the highest world. He who has such a knowledge, obtains Indra’s favour, and conquers the highest world.
मूलम्
तदु वासिष्ठमेतेन वै वसिष्ठ इन्द्रस्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्रस्य प्रियं लोकं गछति जयति परमं लोकं य एवं वेद ।
विश्वास-प्रस्तुतिः
तद्वै षळृचं षड्वा ऋतव ऋतूनामाप्त्यै ।
Haug
It consists of six verses; for there are six seasons; in order to gain the seasons (ṛitus),
मूलम्
तद्वै षळृचं षड्वा ऋतव ऋतूनामाप्त्यै ।
विश्वास-प्रस्तुतिः
तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति ।
Haug
he repeats it after the Sampātas. For the sacrificers have thus a firm footing in this world, in order to reach the heavenly world (after death).
मूलम्
तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति ।
विश्वास-प्रस्तुतिः
अभि तष्टेव दीधया मनीषामित्यछावाकोऽहरहः शंसत्यभिवत्तत्यै रूपम् ।
Haug
The Achchhāvāka repeats every day, abhi taṣṭeva dîdhayā (3, 38). This hymn contains the characteristic abhi (towards) in order to establish a connection (with the other world).
मूलम्
अभि तष्टेव दीधया मनीषामित्यछावाकोऽहरहः शंसत्यभिवत्तत्यै रूपम् ।
विश्वास-प्रस्तुतिः
अभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः ।
Haug
His words “abhi priyāṇi marmṛiśat parāṇi,” mean that the other days (those in the other world) are lovely, and that they are seizing them (securing them).
मूलम्
अभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः ।
विश्वास-प्रस्तुतिः
परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति ।
Haug
Beyond (para) this world is the heaven-world, to which he thus alludes.
मूलम्
परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति ।
विश्वास-प्रस्तुतिः
कवीँ रिछामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति ।
Haug
When repeating the words, kavîṁrichchhāmi saṁdriśe sumedhā, i. e. “I wish to see the wise prophets,” he means by kavis the departed Ṛiṣis.
मूलम्
कवीँ रिछामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति ।
विश्वास-प्रस्तुतिः
तदु वैश्वमित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद ।
Haug
This hymn (abhi taṣṭeva) is a Viśvāmitra hymn, for Viśvāmitra was friend to all; every one will be friendly to him who has this knowledge.
मूलम्
तदु वैश्वमित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद ।
विश्वास-प्रस्तुतिः
तदनिरुक्तम्प्राजापात्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै ।
Haug
He repeats this hymn which belongs to Prajāpati, though his name is not expressly mentioned (aniruktam only hinted at) in it. For Prajāpati cannot be expressed in words. (This is done) in order to obtain (communion with) him.
मूलम्
तदनिरुक्तम्प्राजापात्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै ।
विश्वास-प्रस्तुतिः
सकृदिन्द्रं निराह तेनैन्द्राद्रूपान्न प्रच्यवते ।
Haug
In this hymn the name “Indra” is once mentioned[7]; but this is only for the purpose of preserving the Indra form of the sacrifice (to Indra chiefly belongs the sacrifice).
Haug - Notes
[7]In the last verse (3, 88, 10); but several times alluded to by the name “vriṣabha,” i. e. bull.
मूलम्
सकृदिन्द्रं निराह तेनैन्द्राद्रूपान्न प्रच्यवते ।
विश्वास-प्रस्तुतिः
तद्वै दशर्चं दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्यस्यावरुद्ध्यै ।
Haug
It consist of ten verses. For the Virāj consists of ten syllables, and the Virāj is food; it serves for obtaining food.
मूलम्
तद्वै दशर्चं दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्यस्यावरुद्ध्यै ।
विश्वास-प्रस्तुतिः
यदेव दशर्चां दश वै प्राणाः प्राणानेव तदाप्नुवन्ति प्राणानात्मन्दधते ।
Haug
As regards the number ten (of these) verses, it is to be remarked that there are ten vital airs. The sacrificers thus obtain the vital airs, and connect them with one another.
मूलम्
यदेव दशर्चां दश वै प्राणाः प्राणानेव तदाप्नुवन्ति प्राणानात्मन्दधते ।
विश्वास-प्रस्तुतिः
तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति ।
Haug
The Achchhāvāka repeats this hymn after the Saṁpātas in order to secure the heavenly world (for the sacrificers), whilst the sacrificers move in this world.
मूलम्
तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति ।