सद्यो ह जातो वृषभः कनीन इति मैत्रावरुनः पुरस्तात्सूक्तानामहरहः शंसति तदेतत्सूक्तां स्वर्ग्यमेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद येषां चैवं विद्वानेतन्मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति तदृषभवत्पशुमद्भवति पशूनामवरुद्ध्यै तत्पञ्चर्चम्भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्या उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्धं सूक्तमहरहः शंसति तदेतत्सूक्तं स्वर्ग्यामेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषय-स्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति तदु वासिष्ठमेतेन वै वसिष्ठ इन्द्र स्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्र स्य प्रियं लोकं गछति जयति परमं लोकं य एवं वेद तद्वै षळृचं षड्वा ऋतव ऋतूनामाप्त्यै तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँ ल्लोके प्रतितिष्ठन्त्यभि तष्टेव दीधया मनीषामित्यछावाकोऽहरहः शंसत्यभिवत्तत्यै रूपमभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीँ रिछामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति तदु वैश्वमित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद तदनिरुक्तम्प्राजापात्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै सकृदिन्द्रं निराह तेनैन्द्रा द्रू पान्न प्रच्यवते तद्वै दशर्चं दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्यस्यावरुद्ध्यै यदेव दशर्चां दश वै प्राणाः प्राणानेव तदाप्नुवन्ति प्राणानात्मन्दधते तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव
तत्स्वर्गं लोकं यजमाना अस्मिँ ल्लोके प्रतितिष्ठन्ति २०