विश्वास-प्रस्तुतिः
ततो वा एतांस्त्रीन्सम्पातान्मैत्रावरुणो विपर्यासमेकैकमहरहः शंसति ।
Haug
(On what days, in what order, and by whom the Saṁpāta hymns are to be repeated. The Avapana hymns.)
Thereupon the Maitrāvaruṇa repeats on every day (of the Śaḷaha, but not on those five days mentioned) one of the three Saṁpātas, inverting their order[6] (in the second three days’ performance of the Śaḷaha).
Haug - Notes
[6]This is the real meaning of the term viparyâsam. In the second Tryaha of the Salaha, the hymn which was the first in the first Tryaha is made the last, and the last the first.
मूलम्
ततो वा एतांस्त्रीन्सम्पातान्मैत्रावरुणो विपर्यासमेकैकमहरहः शंसति ।
विश्वास-प्रस्तुतिः
एवा त्वामिन्द्र वज्रिन्नत्रेति प्रथमे ऽहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा महामवृधत्कस्य होतुरिति तृतीये ।
Haug
On the first day he repeats evâ tvâm indra; on the second, yanna indro jujuse; and on the third, kathâ mahâm avṛidhat.
मूलम्
एवा त्वामिन्द्र वज्रिन्नत्रेति प्रथमे ऽहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा महामवृधत्कस्य होतुरिति तृतीये ।
विश्वास-प्रस्तुतिः
त्रीनेव सम्पातान्ब्राह्मणाच्छंसी विपर्यासमेकैकमहरहः शंसतीन्द्रः पूर्भिदातिरद्दासमर्कैरिति प्रथमे ऽहनि य एक इद्धव्यश्चर्षणीनामिति द्वितीये यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये ।
Haug
The Brāhmaṇāchchhaṁsi repeats three Saṁpāta hymns, every day one, inverting their order (in the second three days performance), viz. pûrbhid âtirad on the first day; eka id dhavyas on the second; and yas tigmaśriṁgo, on the third day.
मूलम्
त्रीनेव सम्पातान्ब्राह्मणाच्छंसी विपर्यासमेकैकमहरहः शंसतीन्द्रः पूर्भिदातिरद्दासमर्कैरिति प्रथमे ऽहनि य एक इद्धव्यश्चर्षणीनामिति द्वितीये यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये ।
विश्वास-प्रस्तुतिः
त्रीनेव सम्पातानछावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमे ऽहनीछन्ति त्वा सोम्यासः सखाय इति द्वितीये शासद्वह्निर्दुहितुर्नप्त्यं गादिति तृतीये ।
Haug
In the same manner the Achchhāvāka repeat three Saṁpātas, every day one, viz. imâm û ṣu prabhritim on the fisrt day, ichhanti tvâ somyâsaḥ on the second day, and śâsad vahni on the third day.
मूलम्
त्रीनेव सम्पातानछावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमे ऽहनीछन्ति त्वा सोम्यासः सखाय इति द्वितीये शासद्वह्निर्दुहितुर्नप्त्यं गादिति तृतीये ।
विश्वास-प्रस्तुतिः
तानि वा एतानि नव त्रीणि चाहरहःशस्यानि तानि द्वादश सम्पद्यन्ते ।
Haug
These three (for there are every day three to be repeated) and nine (nine is the number of all taken together) hymns, to be recited day after day, make twelve in all.
मूलम्
तानि वा एतानि नव त्रीणि चाहरहःशस्यानि तानि द्वादश सम्पद्यन्ते ।
विश्वास-प्रस्तुतिः
द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ।
Haug
For the year consists of twelve months, Prajāpati is the year, the sacrifice is Prajāpati.
मूलम्
द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ।
विश्वास-प्रस्तुतिः
तत्सवत्सरम्प्रजापतिं यज्ञमाप्नुवन्ति ।
Haug
They obtained thus this sacrifice, which is Prajāpati, who is the year,
मूलम्
तत्सवत्सरम्प्रजापतिं यज्ञमाप्नुवन्ति ।
विश्वास-प्रस्तुतिः
तत्संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति ।
Haug
and they place thus every day’s performance in the sacrifice, in Prajapati, and in the year.
मूलम्
तत्संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति ।
विश्वास-प्रस्तुतिः
तान्यन्तरेणावापमावपेरन्नन्यूङ्ख्या विराजो वैमदीश्चतुर्थे ऽहनि पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे ।
Haug
Between these hymns they ought to insert the Virāj verses by Vimada, to be recited without Nyūṅkha on the fourth, the Pañkti verses on the fifth, and the Paruchhepa verses on the sixth day.
मूलम्
तान्यन्तरेणावापमावपेरन्नन्यूङ्ख्या विराजो वैमदीश्चतुर्थे ऽहनि पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे ।
विश्वास-प्रस्तुतिः
अथ यान्यहानि महास्तोमानि स्युः को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत वने न वा यो न्यधायि चाकन्निति ब्राह्मणाच्छंस्या याह्यर्वाङुप वन्धुरेष्ठा इत्यछावाकः ।
Haug
Then on the days when the Mahāstomas are required (the Chhandomā days) the Maitrāvaruṇa inserts ko adya naryo devakâma (4, 25, 1), the Brahmaṇâchchhaṁsi, vanena vâyo nyadhâyi (10, 29, 1), and the Achchhāvāka, âyâhy arvâṁg upa (3, 43, 1).
मूलम्
अथ यान्यहानि महास्तोमानि स्युः को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत वने न वा यो न्यधायि चाकन्निति ब्राह्मणाच्छंस्या याह्यर्वाङुप वन्धुरेष्ठा इत्यछावाकः ।
विश्वास-प्रस्तुतिः
एतानि वा आवपनानि ।
Haug
These are the Avapana hymns (intercalary hymns),
मूलम्
एतानि वा आवपनानि ।
विश्वास-प्रस्तुतिः
एतैर्वा आवपनैर्देवाः स्वर्गम्लोकमजयन् ।
Haug
by means of which the Gods and Ṛiṣis conquered the heaven-world,
मूलम्
एतैर्वा आवपनैर्देवाः स्वर्गम्लोकमजयन् ।
विश्वास-प्रस्तुतिः
एतैरृषयस्तथैवैतद्यजमाना एतैरावपनैः स्वर्गं लोकं जयन्ति ।
Haug
and by means of which the sacrificers conquer heaven (also).
मूलम्
एतैरृषयस्तथैवैतद्यजमाना एतैरावपनैः स्वर्गं लोकं जयन्ति ।