ततो वा एतांस्त्रीन्सम्पातान्मैत्रावरुणो विपर्यासमेकैकमहरहः शंसत्येवा त्वा-मिन्द्र वज्रिन्नत्रेति प्रथमेऽहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा महामवृधत्कस्य होतुरिति तृतीये त्रीनेव सम्पातान्ब्राह्मणाच्छंसी विप-र्यासमेकैकमहरहः शंसतीन्द्रः पूर्भिदातिरद्दासमर्कैरिति प्रथमेऽहनि य एक इद्धव्यश्चर्षणीनामिति द्वितीये यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये त्रीनेव सम्पातानछावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमेऽहनीछन्ति त्वा सोम्यासः सखाय इति द्वितीये शासद्वह्निर्दुहितुर्नप्त्यं गादिति तृतीये तानि वा एतानि नव त्रीणि चाहरहःशस्यानि तानि द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापति-र्यज्ञस्तत्संवत्सरम्प्रजापतिं यज्ञमाप्नुवन्ति तत्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति तान्यन्तरेणावापमावपेरन्नन्यूङ्ख्या विराजो वैमदीश्चतुर्थेऽहनि पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठेऽथ यान्यहानि महास्तोमानि स्युः को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत वने न वा यो न्यधायि चाकन्निति ब्राह्म-णाच्छंस्या याह्यर्वाङुप वन्धुरेष्ठा इत्यछावाक एतानि वा आवपनान्येतैर्वा आवपनैर्देवाः स्वर्गम्लोकमजयन्नेतैरृषयस्तथैवैतद्यजमाना एतैरावपनैः स्वर्गं
लोकं जयन्ति १९