तान्वा एतान्सम्पातान्विश्वामित्रः प्रथममपश्यत्तान्विश्वामित्रेण दृष्टान्वामदेवो-ऽसृजतै वा त्वामिन्द्र वज्रिन्नत्र यन्न इन्द्रो जुजुषे यच्च वष्टि कथा महामवृधत्कस्य होतुरिति तान्क्षिप्रं समपतद्यत्क्षिप्रं समपतत्तत्सम्पातानां सम्पातत्वं स हेक्षां चक्रे विश्वामित्रो यान्वा अहं सम्पातानपश्यं तान्वामदेवोऽसृष्ट कानि न्वहं सूक्तानि सम्पातांस्तत्प्रतिमान्सृजेयेति स एतानि सूक्तानि सम्पातांस्तत्प्र-तिमानसृजत सद्यो ह जातो वृषभः कनीन इन्द्रः पूर्भिदातिरद्दासमर्कैरिमामू षु प्रभृतिं सातये धा इछन्ति त्वा सोम्यासः सखायः शासद्वह्निर्दुहितुर्नप्त्यं गादभि तष्टेव दीधया मनीषामिति य एक इद्धव्यश्चर्षणीनामिति भरद्वाजो यस्तिग्मशृङ्गो वृषभो न भीम उदु ब्रह्माण्यैरत श्रवस्येति वसिष्ठोऽस्मा इदु प्र तवसे तुरायेति नोधास्त एते प्रातःसवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति तान्येतान्यहीनसूक्तान्या सत्यो यातु मघवाँ ऋइजीषीति सत्य-वन्मैत्रावरुनो ऽस्मा इदु प्र तवसे तुरायेन्द्रा य ब्रह्माणि राततमा इन्द्र ब्रह्माणि गोतमासो अक्रन्निति ब्रह्मण्वद्ब्राह्मणाच्छंसी शासद्वह्निर्जनयन्त वह्निमिति वह्निवदछावाकस्तदाहुः कस्मादछावाको वह्निवदेतत्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु चेति वीर्यवान्वा एष बह्वृचो वह्निवदेतत्सुक्तं वहति ह वै वह्निर्धुरो यासु युज्यते तस्मादछावाको वह्निवदेतत्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु च तानि पञ्चस्वहस्सु भवन्ति चतु-र्विंशेऽभिजिति विषुवति विश्वजिति महाव्रतेऽहीनानि ह वा एतान्यहानि न ह्येषु किं चन हीयते पराञ्चीनि ह वा एतान्यहान्यनभ्यावर्तीनि तस्मादेना-न्येतेष्वहस्सु शंसन्ति यदेनानि शंसन्त्यहीनान्स्वर्गाँ ल्लोकान्सर्वरूपान्सर्वस-मृद्धानवाप्नवामेति यदेवैनानि शंसन्तीन्द्र मेवैतैर्निह्वयन्ते यथ ऋषभं वाशितायै
यद्वेवैनानि शंसन्त्यहीनस्य संतत्या अहीनमेव तत्संतन्वन्ति १८