यः श्वःस्तोत्रियस्तमनुरूपं कुर्वन्ति प्रातःसवनेऽहीनसंतत्यै यथा वा एकाहः सुत एवमहीनस्तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवमेवा-हीनस्याहानि संतिष्ठमानानि यन्ति तद्यच्छ्वःस्तोत्रियमनुरूपं कुर्वन्ति प्रातः-सवनेऽहीनसंतत्या अहीनमेव तत्संतन्वन्ति ते वै देवाश्च ऋषयश्चाद्रि यन्त समानेन यज्ञं संतनवामेति त एतत्समानं यज्ञस्यापश्यौ समानान्प्रगा-थान्समानीः प्रतिपदः समानानि सूक्तान्योकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं
गछत्यैव तत्रापरं गछति यज्ञस्यैव सेन्द्र तायै १७