१७

विश्वास-प्रस्तुतिः

यः श्वःस्तोत्रियस्तमनुरूपं कुर्वन्ति प्रातःसवने ऽहीनसंतत्यै यथा वा एकाहः सुत एवमहीनः ।

Haug

(The Saṁpâta hymns. The Vâlakhilyas. The Dûrohaṇaṁ.)

When they make at Soma sacrifices, which require several days for their performance (ahīnas) in order to make them continuous, at the morning libation, the singing verse (Stotriya) of the following day, the Anurūpa of the preceding day, it is just the same as with the performance of a Soma sacrifice which lasts for one day only (ekāha.)

मूलम्

यः श्वःस्तोत्रियस्तमनुरूपं कुर्वन्ति प्रातःसवने ऽहीनसंतत्यै यथा वा एकाहः सुत एवमहीनः ।

विश्वास-प्रस्तुतिः

तद्यथैकाहस्य सुतस्य सवनानि सन्तिष्ठमानानि यन्त्येवमेवाहीनस्याहानि सन्तिष्ठमानानि यन्ति ।

Haug

For just as the (three) libations of the one day’s Soma sacrifice are connected with each other, in the same way are the days of a Soma sacrifice which lasts for several days connected with one another.

मूलम्

तद्यथैकाहस्य सुतस्य सवनानि सन्तिष्ठमानानि यन्त्येवमेवाहीनस्याहानि सन्तिष्ठमानानि यन्ति ।

विश्वास-प्रस्तुतिः

तद्यच्छ्वःस्तोत्रियमनुरूपं कुर्वन्ति प्रातःसवने ऽहीनसन्तत्या अहीनमेव तत्सन्तन्वन्ति ।

Haug

The reason that they make at the morning libation, the singing verse (Stotriya) of the following day, the Anurūpa of the preceding day, is to make the days during which the sacrifice lasts one continuous series. Thus they make the days of the Ahīna sacrifices one continuous whole.

मूलम्

तद्यच्छ्वःस्तोत्रियमनुरूपं कुर्वन्ति प्रातःसवने ऽहीनसन्तत्या अहीनमेव तत्सन्तन्वन्ति ।

विश्वास-प्रस्तुतिः

ते वै देवाश्च ऋषयश्चाद्रियन्त समानेन यज्ञं सन्तनवामेति ।

Haug

The Gods and Ṛiṣis considered. Let us make the sacrifice continuous by equalising (its several days.)

मूलम्

ते वै देवाश्च ऋषयश्चाद्रियन्त समानेन यज्ञं सन्तनवामेति ।

विश्वास-प्रस्तुतिः

त एतत्समानं यज्ञस्यापश्यौ समानान्प्रगाथान्समानीः प्रतिपदः समानानि सूक्तानि ।

Haug

They then saw this equality (of the several parts) of the sacrifice, viz. the same Pragāthas, the same Pratipads (beginning triplets), the same hymns.

मूलम्

त एतत्समानं यज्ञस्यापश्यौ समानान्प्रगाथान्समानीः प्रतिपदः समानानि सूक्तानि ।

विश्वास-प्रस्तुतिः

ओकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं गछत्यैव तत्रापरं गछति यज्ञस्यैव सेन्द्रतायै ।

Haug

For Indra walks in the sacrifice on the first as well as on the following day, just as one who has occupied a house. (The Soma days are thus equalised) in order to have (always) Indra (present.)

मूलम्

ओकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं गछत्यैव तत्रापरं गछति यज्ञस्यैव सेन्द्रतायै ।