१६

अथाह यन्नाराशंसं वै तृटीयसवनमथ कस्मादछावाकोऽन्ततः शिल्पेष्वना-राशंसीः शंसतीति विकृतिर्वै नाराशंसं किमिव च वै किमिव च रेतो विक्रियते तत्तद विकृतम्प्रजातम्भवत्यथैतन्मृद्विव छन्दः शिथिरन्यन्नाराशंसमथैषोऽन्त्यो यदछावाकस्तद्दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति तस्मादछावाकोऽन्ततः शिल्पेष्वनाराशंसिः शंसति दृळ्हतायै दृळ्हे प्रतिष्ठास्याम दृळ्हे प्रतिष्ठास्याम

इति १६