१५

अथाह यद्वैश्वदेवं वै तृतीयसवनमथ कस्मादेतान्यैन्द्रा णि जागतानि सूक्तनि तृतीयसवन आरम्भणीयानि शस्यन्त इतीन्द्र मेवैतैरारभ्य यन्तीति ब्रूयादथो यज्जागतं वै तृतीयसवनं तज्जगत्काम्यैव तद्यत्किंचात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं जागतम्भवत्येतानि चेदैन्द्रा णि जागतानि सूक्तानि तृतीयसवन आरम्भ-णीयानि शस्यन्तेऽथ त्रैष्टुभमछावाकोऽन्ततः संसति सं वां कर्मणेति यदेव पनाय्यं कर्म तदेतदभिवदति समिषेत्यन्नं वा इषोऽन्नाद्यस्यावरुद्ध्या अरिष्टैर्नः पथिभिः पारयन्तेति स्वस्तिताया एवैतदहरहः शंसत्यथाह यज्जागतं वै तृतीयसवनमथ कस्मादेषां त्रिष्टुभः परिधानीया भवन्तीति वीर्यं वै त्रिष्टुब्वीर्य एव तदन्ततः प्रतितिष्ठन्तो यन्तीयमिन्द्रं वरुणमष्ट मे गीरिति मैत्रवरुणस्य बृहस्पतिर्नः परि पातु पश्चादिति ब्राह्मणाच्छांसिन उभा जिग्यथुरित्यछा-वाकस्यो भौ हि तौ जिग्यतुर्न परा जयेथे न परा जिग्य इति न हि तयोः कतरश्चन पराजिग्य इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामितीन्द्र श्च ह वै विष्णुश्चासुरैर्युयुधाते तान्ह स्म जित्वोचतुः कल्पामहा इति ते ह तथेत्यसुरा उचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माक-मितरदिति स इमाँ ल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्र-मितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथाम्-ऐरयेथामित्यछावाक उक्थ्येऽभ्यस्यति स हि तत्रान्त्यो भवत्यग्निष्टोमे होतातिरात्रे च स हि तत्रान्त्यो भवत्यभ्यस्येत्षोळशिनीम् नाभ्यस्येदिति अभ्यस्येदित्याहुः कथमन्येष्वहस्स्वभ्यस्यति कथमत्र नाभ्यस्येदिति तस्मादभ्यस्येत् १५