१४

अथाह यदेतास्तिस्र उक्थिन्यो होत्राः कथमितरा उक्थिन्यो भवन्तीत्याज्य-मेवाग्नीध्रीयाया उक्थम्मरुत्वतीयम्पोत्रीयायै वैश्वदेवं नेष्ट्रीयायै ता वा एता होत्रा एवंन्यङ्गा एव भवन्त्यथाह यदेकप्रैषा अन्ये होत्रका अथ कस्माद्द्विप्रैषः पोता द्विप्रैषो नेष्टेति यत्रादो गायत्री सुपर्णो भूत्वा सोममाहरत्तदेतासां होत्राणामिन्द्र उक्थानि परिलुप्य होत्रे प्रददौ यूयम्माभ्यह्वयध्वं यूयमस्यावेदिष्टेति ते होचुर्देवा वाचेमे होत्रे प्रभावयामेति तस्मात्ते द्विप्रैषे भवत ऋचाग्नीध्रीयाम्प्रभावयां चक्रुस्तस्मात्तस्यैकयर्चा भूयस्यो याज्या भवन्त्यथाह यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुनो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्रशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति प्राणो वै होता प्राणः सर्व ऋत्विजः प्राणो यक्षत्प्रानो यक्षदित्येव तदाहाथाहास्त्युद्गातॄणाम्प्रैषाः नाँ इति अस्तीटि ब्रूयाद्य-देवैतत्प्रशास्ता जपं जपित्वा स्तुध्वमित्याह स एषाम्प्रैषोऽथाहास्त्यछावाकस्य प्रवराः नाँ इति अस्तीति ब्रूयाद्यदेवैनमध्वर्युराहाछावाक वदस्व यत्ते वाद्यमित्येषोऽस्य प्रवरोऽथाह यदैन्द्रा वरुणम्मैत्रावरुणस्तृतीयसवने शंसत्यथ कस्मादस्याग्नेयौ स्तोत्रियानुरूपन्भवत इत्यग्निना वै मुखेन देवा असुरानुक्थेभ्यो निर्जघ्नुस्तस्मादस्याग्नेयौ स्तोत्रियानुरूपन्भवतोऽथाह यदैन्द्रा बार्हस्पत्यम्ब्राह्म-णाच्छांसी तृतीयसवने शंसत्यैन्द्रा वैष्णवमछावाकः कथमेनयोरैन्द्राः स्तोत्रि-यानुरूपा भवन्तीतीन्द्रो ह स्म वा असुरानुक्थेभ्यः प्रजिगाय सोऽब्रवीत्कश्चाहं चेत्यहं चाहं चेति ह स्म देवता अन्ववयन्ति स यदिन्द्रः पूर्वः प्रजिगाय तस्मादेनयोरैन्द्राः स्तोत्रियानुरूपा भवन्ति यद्वहं चाहं चेति ह स्म देवता

अन्ववयुस्तस्मान्नानादेवत्यानि शंसतः १४