१३

अथाह यदुक्थिन्योऽन्या होत्रा अनुक्था अन्याः कथमस्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्तीति यदेवैनाः सम्प्रगीर्य होत्रा इत्याचक्षते तेन समा यदुक्थिन्योऽन्या होत्रा अनुक्था अन्यास्तेनो विषमा एवमु हास्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्त्यथाह शंसन्ति प्रातःसवने शंसन्ति माध्यंदिने होत्रकाः कथमेषां तृतीयसवने शस्तम्भवतीति यदेव माध्यंदिने द्वेद्वे सूक्ते शंसन्तीति ब्रूयात्तेनेत्यथाह यद्द्व्युक्थो होता कथं होत्रका द्व्युक्था भवन्तीति

यदेव द्विदेवत्यभिर्यजन्तीति ब्रूयात्तेनेति १३