इहोप यात शवसो नपात इति तृतीयसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धास्ता ऐन्द्रा र्भव्यो भवन्ति तदाहुर्यन्नार्भवीषु स्तुवतेऽथ कस्मादार्भवः पवमान इत्याचक्षत इति प्रजापतिर्वै पित ऋभू-न्मर्त्यान्सतोऽमर्त्यान्कृत्वा तृतीयसवन आभजत्तस्मान्नार्भवीषु स्तुवतेऽथार्भवः पवमान इत्याचक्षतेऽथाह यद्यथाछन्दसम्पूर्वयोः सवनयोरन्वाह गायत्रीः प्रातःसवने त्रिष्टुभो माध्यंदिनेऽथ कस्माज्जागते सति तृतीयसवने त्रिष्टुभो-ऽन्वाहेति धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप्स-वनस्य सरसताया इति ब्रूयादथो इन्द्रं एवैतत्सवनेऽन्वाभजतीत्यथाह यदैन्द्रा र्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थिताना-म्प्रत्यक्षादैन्द्रा र्भव्या यजतीन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिति होतैव नाना-देवत्याभिरितरे कथं तेषामैन्द्रा र्भव्यो भवन्तीतीन्द्रा वरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति युवो रथो अध्वरं देववीतय इति बहूनि वह तदृभूणाम्रूपमिन्द्र श्च सोमम्पिबतम्बृहस्पत इति ब्राह्मणाच्छंसी यजत्या वां विशन्त्विन्दवः स्वाभुव इति बहूनि वाह तदृभूणां रूपमा वो वहन्तु सप्तयो रघुष्यद इति पोता यजति रघुपत्वानः प्र जिगात बाहुभिरिति बहूनि वह तदृभूणां रूपममेव नः सुहवा आ हि गन्तनेति नेष्टा यजति गन्तनेति बहूनि वाह तदृभूणां रूपमिन्द्रा विष्णू पिबतम्मध्वो अस्येत्यछावाको यजत्या वामन्धांसि मदि-राण्यग्मन्निति बहूनि वाह तदृभूणां रूपमिमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपमेवमु हैता ऐन्द्रा र्भव्यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु जगत्प्रासाहा
जागतं वै तृतीयसवनं तृतीयसवनस्यैव समृद्ध्यै १२