विश्वास-प्रस्तुतिः
इहोप यात शवसो नपात इति तृतीयसवन उन्नीयमानेभ्यो ऽन्वाह ।
Haug
(The hymn and the Prasthita Yājyās at the evening libation.)
At the third libation the Hotar repeats at the time when the Soma cups are being lifted, the hymn ihopayāta śavasô napātaḥ (4, 35, 1).
मूलम्
इहोप यात शवसो नपात इति तृतीयसवन उन्नीयमानेभ्यो ऽन्वाह ।
विश्वास-प्रस्तुतिः
वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धास्ता ऐन्द्रार्भव्यो भवन्ति ।
Haug
Its verses which are complete in form, are addressed to Indra, and belong to the Ribhus, contain the words vṛiṣaṇ, pīta, suta mad.
मूलम्
वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धास्ता ऐन्द्रार्भव्यो भवन्ति ।
विश्वास-प्रस्तुतिः
तदाहुर्यन्नार्भवीषु स्तुवते ऽथ कस्मादार्भवः पवमान इत्याचक्षत इति ।
Haug
They ask, Why is the Pavamāna Stotra at the evening libation called Arbhava, though they do not sing Ribhu verses?
मूलम्
तदाहुर्यन्नार्भवीषु स्तुवते ऽथ कस्मादार्भवः पवमान इत्याचक्षत इति ।
विश्वास-प्रस्तुतिः
प्रजापतिर्वै पित ऋभून्मर्त्यान्सतो ऽमर्त्यान्कृत्वा तृतीयसवन आभजत्तस्मान्नार्भवीषु स्तुवते ऽथार्भवः पवमान इत्याचक्षते ।
Haug
(The answer is) Prajāpati, the father, when transforming the Ribhus who were mortals, into immortals, gave them a share in the evening libation. Thence they do not sing Ribhu verses, but they call the Pavamāna Stotra Arbhava.
मूलम्
प्रजापतिर्वै पित ऋभून्मर्त्यान्सतो ऽमर्त्यान्कृत्वा तृतीयसवन आभजत्तस्मान्नार्भवीषु स्तुवते ऽथार्भवः पवमान इत्याचक्षते ।
विश्वास-प्रस्तुतिः
अथाह यद्यथाछन्दसम्पूर्वयोः सवनयोरन्वाह गायत्रीः प्रातःसवने त्रिष्टुभो माध्यंदिने ऽथ कस्माज्जागते सति तृतीयसवने त्रिष्टुभो ऽन्वाहेति ।
Haug
One (great Riṣi) asked about the application of metres, viz. for what reason does he use the Triṣṭubh metre at the third libation, whilst the appropriate metre for this libation is Jagatî, as well as the Gāyatrī that for the morning, and the Triṣṭubh for the midday libation?
मूलम्
अथाह यद्यथाछन्दसम्पूर्वयोः सवनयोरन्वाह गायत्रीः प्रातःसवने त्रिष्टुभो माध्यंदिने ऽथ कस्माज्जागते सति तृतीयसवने त्रिष्टुभो ऽन्वाहेति ।
विश्वास-प्रस्तुतिः
धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप्सवनस्य सरसताया इति ब्रूयात् ।
Haug
One ought to say (in reply), At the third libation the Soma juice is done; but if they use a sparkling (śukriyam) metre as the Triṣṭubh, the juice of which is not done, then they provide the (third) libation with juice (liquor).
मूलम्
धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप्सवनस्य सरसताया इति ब्रूयात् ।
विश्वास-प्रस्तुतिः
अथो इन्द्रं एवैतत्सवने ऽन्वाभजतीति ।
Haug
Then he makes Indra participate in this libation also.
मूलम्
अथो इन्द्रं एवैतत्सवने ऽन्वाभजतीति ।
विश्वास-प्रस्तुतिः
अथाह यदैन्द्रार्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थिताम्प्रत्यक्षादैन्द्रार्भव्या यजतीन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिति होतैव ।
Haug
One says, Why, since the third libation belongs to Indra and the Ribhus, and the Hotar alone makes the Yājyās for the Soma which are in readiness (prasthita) with an Indra-Ribhu verse, at the third libation, do the other Hotṛi-priests use verses addressed to various other deities for their Yājyās? In the Yājyā of the Hotar, ribhubhir vajadbhiḥ samukṣitam (not in the Rigveda) the Ribhus are mentioned,
मूलम्
अथाह यदैन्द्रार्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थिताम्प्रत्यक्षादैन्द्रार्भव्या यजतीन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिति होतैव ।
विश्वास-प्रस्तुतिः
नानादेवत्याभिरितरे कथं तेषामैन्द्रार्भव्यो भवन्तीति ।
Haug
but in the Yājyās of the other priests they are only hinted at.
मूलम्
नानादेवत्याभिरितरे कथं तेषामैन्द्रार्भव्यो भवन्तीति ।
विश्वास-प्रस्तुतिः
इन्द्रा वरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति ।
Haug
The Maitrāvaruṇa repeats, indrāvaruṇa sutapāvimam sutam (6, 68, 10);
मूलम्
इन्द्रा वरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति ।
विश्वास-प्रस्तुतिः
युवो रथो अध्वरं देववीतय इति बहूनि वह तदृभूणाम्रूपम् ।
Haug
in the words, yuvo ratho adhvaram devavītaye, there is a plurality (in the words devavītaye = devānāṃ vītaye, i.e. for the enjoyment of the gods) which is a characteristic of the Ribhus.
मूलम्
युवो रथो अध्वरं देववीतय इति बहूनि वह तदृभूणाम्रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्रश्च सोमम्पिबतम्बृहस्पत इति ब्राह्मणाच्छंसी यजति ।
Haug
The Brāhmaṇāchchhaṁsī repeats the verse, *indraścha somam pibatam (4,50,10);
मूलम्
इन्द्रश्च सोमम्पिबतम्बृहस्पत इति ब्राह्मणाच्छंसी यजति ।
विश्वास-प्रस्तुतिः
आ वां विशन्त्विन्दवः स्वाभुव इति बहूनि वाह तदृभूणां रूपम् ।
Haug
in its words, viśantu iṇdavaḥ, i.e. “may the drops come”, a plurality is expressed, which is a characteristic of the Ribhus.
मूलम्
आ वां विशन्त्विन्दवः स्वाभुव इति बहूनि वाह तदृभूणां रूपम् ।
विश्वास-प्रस्तुतिः
आ वो वहन्तु सप्तयो रघुष्यद इति पोता यजति ।
Haug
The Yājyā of the Potar is, ā vo vahantu saptayo (1, 85, 6);
मूलम्
आ वो वहन्तु सप्तयो रघुष्यद इति पोता यजति ।
विश्वास-प्रस्तुतिः
रघुपत्वानः प्र जिगात बाहुभिरिति बहूनि वह तदृभूणां रूपम् ।
Haug
in its words, raghu atvānaḥ prajigāta bāhubhir there is a plurality (these three words are in the plural) expressed, which is the characteristic of the Ribhus.
मूलम्
रघुपत्वानः प्र जिगात बाहुभिरिति बहूनि वह तदृभूणां रूपम् ।
विश्वास-प्रस्तुतिः
अमेव नः सुहवा आ हि गन्तनेति नेष्टा यजति ।
Haug
The Yājyā of the Neṣṭar is, ameva naḥ suhavā (2, 36, 3),
मूलम्
अमेव नः सुहवा आ हि गन्तनेति नेष्टा यजति ।
विश्वास-प्रस्तुतिः
गन्तनेति बहूनि वाह तदृभूणां रूपम् ।
Haug
in it the word gantana “go ye!” expresses a plurality.
मूलम्
गन्तनेति बहूनि वाह तदृभूणां रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्राविष्णू पिबतम्मध्वो अस्येत्यछावाको यजति ।
Haug
The Yājyā of the Achchhāvāka is, indrāviṣṇu pibatam madhvo (6, 69, 7);
मूलम्
इन्द्राविष्णू पिबतम्मध्वो अस्येत्यछावाको यजति ।
विश्वास-प्रस्तुतिः
आ वामन्धांसि मदिराण्यग्मन्निति बहूनि वाह तदृभूणां रूपम् ।
Haug
its words, ā vām andhāṃsi madirāṇi expresses a plurality.
मूलम्
आ वामन्धांसि मदिराण्यग्मन्निति बहूनि वाह तदृभूणां रूपम् ।
विश्वास-प्रस्तुतिः
इमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति ।
Haug
The Yājyā of the Agnīdhra is, imam stomam arhate (1, 94, 1);
मूलम्
इमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति ।
विश्वास-प्रस्तुतिः
रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपम् ।
Haug
in its words ratham iva saṁmahemâ (this is first person plural) there is a plurality expressed.
मूलम्
रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपम् ।
विश्वास-प्रस्तुतिः
एवमु हैता ऐन्द्रार्भव्यो भवन्ति ।
Haug
In this way all these verses become Aindra-Arbhavah.
मूलम्
एवमु हैता ऐन्द्रार्भव्यो भवन्ति ।
विश्वास-प्रस्तुतिः
यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति ।
Haug
By repeating verses being (apparently) addressed to various deities, he pleases other deities (also), save Indra and the Ribhus.
मूलम्
यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति ।
विश्वास-प्रस्तुतिः
यदु जगत्प्रासाहा जागतं वै तृतीयसवनं तृतीयसवनस्यैव समृद्ध्यै ।
Haug
They are the conquerors of the jagat i. e. world; therefore the Jagatī metre is required for the evening libation, to make it successful.
मूलम्
यदु जगत्प्रासाहा जागतं वै तृतीयसवनं तृतीयसवनस्यैव समृद्ध्यै ।