असावि देवं गोऋजीकमन्ध इति मध्यंदिन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्री रन्वाहैन्द्रो वै यज्ञस्त्रिष्टुभोऽन्वाह त्रैष्टुभम्वै माध्यंदिनं सवनं तदाहुर्यत्तृतीयसवनस्यैव रूपम्मद्वदथ कस्मा-न्मध्यंदिने मद्वतीरनु चाह यजन्ति चाभिरिति माद्यन्तीव वै मध्यंदिने देवताः समेव तृतीयसवने मादयन्ते तस्मान्मध्यंदिने मद्वतीरनु चाह यजन्ति चाभिस्ते वै खलु सर्व एव माध्यंदिने प्रस्थितानाम्प्रत्यक्षादैन्द्री भिर्यजन्त्यभितृण्णव-तीभिरेके पिबा सोममभि यमुग्र तर्द इति होता यजति स ईम्पाहि य ऋजीषी तरुत्र इति मैत्रावरुणो यजत्येवा पाहि प्रत्नथा मन्दतु त्वेति ब्राह्मणाच्छंसी यजत्यर्वाङेहि सोमकामं त्वाहुरिति पोता यजति तवायं सोमस्त्वमेह्यर्वाङिति नेष्टा यजतीन्द्र य सोमाः प्रदिवो विदाना इत्यछावाको यजत्यापूर्णो अस्य कलशः स्वाहेत्याग्नीध्रो यजति तासामेता अभितृण्णवत्यो भवन्तीन्द्रो वै प्रातःसवने न व्यजयत स एताभिरेव माध्यंदिनं सवनमभ्यतृणद्यदभ्यतृणत्तस्मादेता अभितृण्णवत्यो भवन्ति ११