१०

अथाह यदैन्द्रो वै यज्ञोऽथ कस्माद्द्वादेव प्रातःसवने प्रस्थितानाम्प्रत्य-क्षादैन्द्री भ्यां यजतो होता चैव ब्राह्मणाच्च्क्तःइ चेदं ते सोम्यम्मध्विति होता यजतीन्द्र त्वा वृषभं वयं इति ब्राह्मणाच्छंसी नानादे अत्याभिरितरे कथं तेषामैन्द्र् यो भवन्तीति मित्रं वयं हवामह इति मैत्रावरुणो यजति वरुणं सोमपीतय इति यद्वै किंच पीतवत्पदं तदैन्द्रं रूपं तेनेन्द्र म्प्रीणाति मरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपास्तदैन्द्रं रूपंतेनेन्द्र म्प्रीणात्यग्ने पत्नीरिहा वहेति नेष्टा यजति त्वष्टारं सोमपीतय इतीन्द्रो वै त्वष्टा तदैन्द्रं रूपं तेनेन्द्र म्प्रीणात्युक्षान्नाय वशान्नायेत्याग्नीध्रो याजति सोमपृष्ठाय वेधस इतीन्द्रो वै वेधस्तदैन्द्रं रूपं तेनेन्द्र म्प्रीणति प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्रा ग्नी सोमपीतय इति स्वयंसमृद्धाछावाकास्यैवमु हैता ऐन्द्र् यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु गायत्र्यस्तेनाग्नेय्य

एतदु हैताभिस्त्रयमुपाप्नोति १०