आ त्वा वहन्तु हरय इति प्रातःसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्री रन्वाहैन्द्रो वै यज्ञो गायत्रीरन्वाह गायत्रं वै प्रातःसवनं नव न्यूनाः प्रातःसवनेऽन्वाह न्यूने वै रेतः सिच्यते दश मध्यंदिनेऽन्वाह न्यूने वै रेतः सिक्तम्मध्यं स्त्रियै प्राप्य स्थविष्ठम्भवति नव न्यूनास्तृतीयसवनेऽन्वाह न्यूनाद्वै प्रजाः प्रजायन्ते तद्यदेतानि केवलसूक्ता-न्यन्वाह यजमानमेव तद्गर्भम्भूतम्प्रजनयति यज्ञाद्देवयोन्यै ते हैके सप्तसप्ता-न्वाहुः सप्त प्रातःसवने सप्त माध्यंदिने सप्त तृतीयसवने यावत्यो वै पुरोनुवाक्यास्तावत्यो याज्याः सप्त वै प्राञ्चो यजन्ति सप्त वषट्कुर्वन्ति तासा-मेताः पुरोन्न्वाक्या इति वदन्तस्तत्तथा न कुर्याद्यजमानस्य ह ते रेतो विलु-म्पन्त्यथो यजमानमेव यजमानो हि सूक्तं नवभिर्वा एतम्मैत्रावरुणोऽस्मा-ल्लोकादन्तरिक्षलोकमभि प्रवहति दशभिरन्तरिक्षलोकादमुं लोकमभ्यन्तरि-क्षलोको हि ज्येष्ठोऽनवभिरमुष्माल्लोकात्स्वर्गं लोकमभि न ह वै ते यजमानां स्वर्गं लोकमभि वोळ्हुमर्हन्ति ये सप्तसप्तान्वाहुस्तस्मात्केवलश एव
सूक्तान्यनुब्रूयात् ९