उभय्यः परिधानीया भवन्ति होत्रकाणाम्प्रातःसवने च माध्यंदिने चाही-नाश्चैकाहिकाश्च तत ऐकाहिकाभिरेव मैत्रावरुणो परिदधाति तेनास्माल्लोकान्न प्रच्यवतेऽहीनाभिरछावाकः स्वर्गस्य लोकस्याप्त्या उभयीभिर्ब्राह्मणाच्छंसी तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकमथो मैत्रावरुणं चाछावाकं चाथो अहीनं चैकाहञ्चाथो संवत्सरं चाग्निष्टोमं चैवमु स उभौ व्यन्वारभमाण एत्यथ तत ऐकाहिका एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति प्रतिष्ठा वा एकाहः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्त्यनवानम्प्रातःसवने यजे-देकां द्वे न स्तोममतिशंसेत्तद्यथाभिहेषते पिपासते क्षिप्रम्प्रयछेत्तादृक्तदथो क्षिप्रं देवेभ्योऽन्नाद्यं सोमपीथम्प्रयछानीति क्षिप्रं हास्मिँ ल्लोके प्रतितिष्ठत्य-परिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै कामं तद्धोता शांसेद्यद्धोत्रकाः पुर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः प्राणो वै होताङ्गानि होत्रकाः समानो वा अयम्प्राणोऽङ्गान्यनुसंचरति तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः सूक्तान्तैर्होता परिदधदेत्यथ समान्य एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्त्यात्मा वै होताङ्गानि होत्रकाः समाना वा इमेऽङ्गानामन्तास्तस्मात्समान्य एव तृतीयसवने
होत्रकाणाम्परिधानिया भवन्ति भवन्ति ८
२