विश्वास-प्रस्तुतिः
उभय्यः परिधानीया भवन्ति होत्रकाणाम्प्रातःसवने च माध्यंदिने चाहीनाश्चैकाहिकाश्च ।
Haug
(On the Ahina and Aikāhika concluding verses of the Śastras of the minor Hotṛi-priests.)
The concluding verses of the Hotṛi-priests (Maitrāvaruṇa, Brāhmaṇāchchhaṁsi, and Achchhāvāka) are, at the morning and midday libations of two kinds, viz. āhīna (which are proper for Soma sacrifices, which last for several days successively) and aikāhika (which are proper for Soma sacrifices which last for one day only).
मूलम्
उभय्यः परिधानीया भवन्ति होत्रकाणाम्प्रातःसवने च माध्यंदिने चाहीनाश्चैकाहिकाश्च ।
विश्वास-प्रस्तुतिः
तत ऐकाहिकाभिरेव मैत्रावरुणो परिदधाति तेनास्माल्लोकान्न प्रच्यवते ।
Haug
The Maitrāvaruṇa uses the aikāhikas preventing (thus) the sacrificer from falling out of this world.
मूलम्
तत ऐकाहिकाभिरेव मैत्रावरुणो परिदधाति तेनास्माल्लोकान्न प्रच्यवते ।
विश्वास-प्रस्तुतिः
अहीनाभिरछावाकः स्वर्गस्य लोकस्याप्त्या ।
Haug
The Achchhāvāka uses the āhīnas for making (the sacrificer obtain heaven).
मूलम्
अहीनाभिरछावाकः स्वर्गस्य लोकस्याप्त्या ।
विश्वास-प्रस्तुतिः
उभयीभिर्ब्राह्मणाच्छंसी ।
Haug
The Brāhmaṇāchchhaṁsi uses both;
मूलम्
उभयीभिर्ब्राह्मणाच्छंसी ।
विश्वास-प्रस्तुतिः
तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकम् ।
Haug
for thus he holds both worlds (with his hands) and walks in them.
मूलम्
तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकम् ।
विश्वास-प्रस्तुतिः
अथो मैत्रावरुणं चाछावाकं चाथो अहीनं चैकाहञ्चाथो संवत्सरं चाग्निष्टोमं चैवमु स उभौ व्यन्वारभमाण एति ।
Haug
In this way he (the Brāhmaṇāchchhaṁsi) walks holding both, the Maitrāvaruṇa and the Achchhāvāka, the Ahīna and Ekāha, and (farther) the sacrificial session lasting all the year round (such as the Gavām ayanam) and the Agniṣṭoma (the model of all Aikāhikas).
मूलम्
अथो मैत्रावरुणं चाछावाकं चाथो अहीनं चैकाहञ्चाथो संवत्सरं चाग्निष्टोमं चैवमु स उभौ व्यन्वारभमाण एति ।
विश्वास-प्रस्तुतिः
अथ तत ऐकाहिका एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति ।
Haug
The Hotṛi-priests require at the third libation Ekāhas only for concluding.
मूलम्
अथ तत ऐकाहिका एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति ।
विश्वास-प्रस्तुतिः
प्रतिष्ठा वा एकाहः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति ।
Haug
For the Ekāha is the footing, and thus they place the sacrifice at the end on a footing.[4]
Haug - Notes
[4]For the Ekâha sacrifices are the models of the others.
मूलम्
प्रतिष्ठा वा एकाहः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति ।
विश्वास-प्रस्तुतिः
अनवानम्प्रातःसवने यजेदेकां द्वे न स्तोममतिशंसेत् ।
Haug
At the morning libation he must read the Yājyā verses without stopping (anavānam). The Hotar shall not recite one or two additional verses (atiśamsanam) for the Stoma.
मूलम्
अनवानम्प्रातःसवने यजेदेकां द्वे न स्तोममतिशंसेत् ।
विश्वास-प्रस्तुतिः
तद्यथाभिहेषते पिपासते क्षिप्रम्प्रयछेत्तादृक्तत् ।
Haug
It is just the same case as if one who asks for food and drink must be speedily supplied.
मूलम्
तद्यथाभिहेषते पिपासते क्षिप्रम्प्रयछेत्तादृक्तत् ।
विश्वास-प्रस्तुतिः
अथो क्षिप्रं देवेभ्यो ऽन्नाद्यं सोमपीथम्प्रयछानीति क्षिप्रं हास्मिँल्लोके प्रतितिष्ठति ।
Haug
Thinking, I will quickly supply the gods their food, he speedily gets a footing in this world.
मूलम्
अथो क्षिप्रं देवेभ्यो ऽन्नाद्यं सोमपीथम्प्रयछानीति क्षिप्रं हास्मिँल्लोके प्रतितिष्ठति ।
विश्वास-प्रस्तुतिः
अपरिमिताभिरुत्तरयोः सवनयोः ।
Haug
He should make the Śastram at the two latter libations with an unlimited number of verses;
मूलम्
अपरिमिताभिरुत्तरयोः सवनयोः ।
विश्वास-प्रस्तुतिः
अपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै ।
Haug
for the heaven-world is unlimited. (This is done) for obtaining the heaven-world.
मूलम्
अपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याप्त्यै ।
विश्वास-प्रस्तुतिः
कामं तद्धोता शांसेद्यद्धोत्रकाः पुर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः ।
Haug
The Hotar may, if he like, recite those verses which the minor Hotṛi-priests used to repeat on a previous day. Or the Hotṛi-priests (may, if they like, repeat those verses) which the Hotar (used to repeat on the previous day)
मूलम्
कामं तद्धोता शांसेद्यद्धोत्रकाः पुर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः ।
विश्वास-प्रस्तुतिः
प्राणो वै होताङ्गानि होत्रकाः ।
Haug
(For Hotar as well as the Hotṛi-priests form parts of one body only). For the Hotar is the breath, and the Hotṛi-priests are the limbs.
मूलम्
प्राणो वै होताङ्गानि होत्रकाः ।
विश्वास-प्रस्तुतिः
समानो वा अयम्प्राणो ऽङ्गान्यनुसञ्चरति ।
Haug
This breath goes equally through the limbs.
मूलम्
समानो वा अयम्प्राणो ऽङ्गान्यनुसञ्चरति ।
विश्वास-प्रस्तुतिः
तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः ।
Haug
Thence the Hotar should, if he like, recite those verses which the minor Hotṛi-priests used to recite on the previous day. Or the Hotṛi-priest (may, if they like, repeat those verses) which the Hotar (used to repeat on the previous day).
मूलम्
तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः ।
विश्वास-प्रस्तुतिः
सूक्तान्तैर्होता परिदधदेत्यथ समान्य एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति ।
Haug
The last verses of the hymns with which the Hotar concludes, are the same with the concluding verses of the minor Hotṛi-priests at the evening libation.
मूलम्
सूक्तान्तैर्होता परिदधदेत्यथ समान्य एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति ।
विश्वास-प्रस्तुतिः
आत्मा वै होताङ्गानि होत्रकाः ।
Haug
For the hotar is the soul, and the Hotṛi-priests are the limbs;
मूलम्
आत्मा वै होताङ्गानि होत्रकाः ।
विश्वास-प्रस्तुतिः
समाना वा इमे ऽङ्गानामन्ताः ।
Haug
the ends of the limbs are equal,
मूलम्
समाना वा इमे ऽङ्गानामन्ताः ।
विश्वास-प्रस्तुतिः
तस्मात्समान्य एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति भवन्ति ।
Haug
therefore the (three) Hotṛi-priests use, at the evening libation, the same concluding verses.
मूलम्
तस्मात्समान्य एव तृतीयसवने होत्रकाणाम्परिधानीया भवन्ति भवन्ति ।