विश्वास-प्रस्तुतिः
अथातः परिधानीया एव ।
Haug
(The concluding verses of the same Śastras at the Ahargaṇa Soma sacrifices.)
Now follow the concluding verses of these Śastras:
मूलम्
अथातः परिधानीया एव ।
विश्वास-प्रस्तुतिः
ते स्याम देव वरुणेति मैत्रावरुणस्य ।
Haug
Te syāma deva varuṇa (7, 66, 9) is that of the Maitrāvaruṇa Śastra.
मूलम्
ते स्याम देव वरुणेति मैत्रावरुणस्य ।
विश्वास-प्रस्तुतिः
इषं स्वश्च धीमहीति ।
Haug
For by its words, “we contemplate food (iṣam) and light (svar),”
मूलम्
इषं स्वश्च धीमहीति ।
विश्वास-प्रस्तुतिः
अयं वै लोक इषमित्यसौ लोकः स्वरिति ।
Haug
they get hold of both worlds; for “food” is this world, and “light” is that world.
मूलम्
अयं वै लोक इषमित्यसौ लोकः स्वरिति ।
विश्वास-प्रस्तुतिः
उभावेवैतया लोकावारभन्ते ।
Haug
they get hold of both worlds.
मूलम्
उभावेवैतया लोकावारभन्ते ।
विश्वास-प्रस्तुतिः
व्यन्तरिक्षमतिरदिति ब्राह्मनाच्छंसिनो विवत्तृचम् ।
Haug
By the triplet *vyantarikṣam atirad* (8, 14, 7-9), which has the characteristic *vi*, i.e. asunder, the Brāhmaṇāchchhaṁsi opens the gates of the heavenly world.मूलम्
व्यन्तरिक्षमतिरदिति ब्राह्मनाच्छंसिनो विवत्तृचम् ।
विश्वास-प्रस्तुतिः
स्वर्गमेवैभ्य एताय लोकं विवृणोति ।
Haug
the Brāhmaṇāchchhaṁsi opens the gates of the heavenly world.
मूलम्
स्वर्गमेवैभ्य एताय लोकं विवृणोति ।
विश्वास-प्रस्तुतिः
मदे सोमस्य रोचना इन्द्रो यदभिनद्वलमिति ।
Haug
The words, “Indra, inebriated by Soma, cleft the hole and made appear the lights” (8, 14, 7), refer to the passionate desire of those who are initiated into the sacrificial art (for heaven);
मूलम्
मदे सोमस्य रोचना इन्द्रो यदभिनद्वलमिति ।
विश्वास-प्रस्तुतिः
सिषासवो वा एते यद्दीक्षितास्तस्मादेषा बलवती भवति ।
Haug
thence it is called the Balavatî verse[3].
Haug - Notes
[3]There is the word vala hole, in it, which may be regarded as a proper name of an Asura also.
मूलम्
सिषासवो वा एते यद्दीक्षितास्तस्मादेषा बलवती भवति ।
विश्वास-प्रस्तुतिः
उद्गा आजदङ्गिरोभ्य आविसः कृण्वन्गुहा सतीः ।
Haug
The words, “He drove out the cows, and revealed them which were hidden, to the Aṅgiras,
मूलम्
उद्गा आजदङ्गिरोभ्य आविसः कृण्वन्गुहा सतीः ।
विश्वास-प्रस्तुतिः
अर्वाञ्चं नुनुदे बलमिति ।
Haug
and flung away Bala”,
मूलम्
अर्वाञ्चं नुनुदे बलमिति ।
विश्वास-प्रस्तुतिः
सनिमेवैभ्य एतयावरुन्द्धे ।
Haug
contain the expression of a gift to them (the Aṅgiras).
मूलम्
सनिमेवैभ्य एतयावरुन्द्धे ।
विश्वास-प्रस्तुतिः
इन्द्रेण रोचना दिव इति स्वर्गो वै लोक इन्द्रेण रोचना दिवः ।
Haug
By the words, “indreṇa rochanā divi (verse 9) the heaven-world is alluded to.”
मूलम्
इन्द्रेण रोचना दिव इति स्वर्गो वै लोक इन्द्रेण रोचना दिवः ।
विश्वास-प्रस्तुतिः
दृळ्हानि दृंहितानि च स्थिराणि न पराणुद इति ।
Haug
By the words, “The fixed lights (stars) of heaven have been fastened by Indra, the fixed ones he does not fling away,”
मूलम्
दृळ्हानि दृंहितानि च स्थिराणि न पराणुद इति ।
विश्वास-प्रस्तुतिः
स्वर्ग एवैतया लोके ऽहरहः प्रतितिष्ठन्तो यन्ति ।
Haug
the sacrificers approach every day heaven and walk there.
मूलम्
स्वर्ग एवैतया लोके ऽहरहः प्रतितिष्ठन्तो यन्ति ।
विश्वास-प्रस्तुतिः
अहं सरस्वतीवतोरित्यछावाकस्य ।
Haug
Aham sarasvatîvator (8, 38, 10), is the verse of the Achchhāváka.
मूलम्
अहं सरस्वतीवतोरित्यछावाकस्य ।
विश्वास-प्रस्तुतिः
वाग्वै सरस्वती वाग्वतोरिति हैतदाह ।
Haug
For Sarasvatî is the voice; (the dual is used) for this day belongs to the “two who have the voice.”
मूलम्
वाग्वै सरस्वती वाग्वतोरिति हैतदाह ।
विश्वास-प्रस्तुतिः
इन्द्राग्न्योरवो वृण इति ।
Haug
(As to who they are is expressed by the words) “I choose the tone of Indrāgnī.”
मूलम्
इन्द्राग्न्योरवो वृण इति ।
विश्वास-प्रस्तुतिः
एतद्धवा इन्द्राग्न्योः प्रियं धाम यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति ।
Haug
For the voice is the beloved residence of Indrāgnī. Through this residence one makes both successful.
मूलम्
एतद्धवा इन्द्राग्न्योः प्रियं धाम यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति ।
विश्वास-प्रस्तुतिः
प्रियेण धाम्ना समृध्यते य एवं वेद ।
Haug
Who has this knowledge, will be successful in his own residence (his own way).
मूलम्
प्रियेण धाम्ना समृध्यते य एवं वेद ।