अथातः परिधानीया एव ते स्याम देव वरुणेति मैत्रावरुणस्येषं स्वश्च धीमहीत्ययं वै लोक इषमित्यसौ लोकः स्वरित्युभावेवैतया लोकावारभन्ते व्यन्तरिक्षमतिरदिति ब्राह्मनाच्छंसिनो विवत्तृचं स्वर्गमेवैभ्य एताय लोकं विवृणोति मदे सोमस्य रोचना इन्द्रो यदभिनद्वलमिति सिषासवो वा एते यद्दीक्षितास्तस्मादेषा वलवती भवत्युद्गा आजदङ्गिरोभ्य आविसः कृण्वन्गुहा सतीः अर्वाञ्चं नुनुदे वलमिति सनिमेवैभ्य एतयावरुन्द्ध इन्द्रे ण रोचना दिव इति स्वर्गो वै लोक इन्द्रे ण रोचना दिवो दृळ्हानि दृंहितानि च स्थिराणि न पराणुद इति स्वर्ग एवैतया लोकेऽहरहः प्रतितिष्ठन्तो यन्त्याहं सरस्वती-वतोरित्यछावाकस्य वाग्वै सरस्वती वाग्वतोरिति हैतदाहेन्द्रा ग्न्योरवो वृण इत्येतद्ध वा इन्द्रा ग्न्योः प्रियं धाम यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति
प्रियेण धाम्ना समृध्यते य एवं वेद ७