अथात आरम्भणीया एव ऋजुनीती नो वरुण इति मैत्रावरुणस्य मित्रो नयतु विद्वानिति प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्तस्मादेषा प्रणेतृमती भवतीन्द्रं वो विश्वतस्परीति ब्राह्मणाच्छंसिनो हवामहे जनेभ्य इतीन्द्र मेवैतयाहरहार्निह्वयन्ते न हैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवं विद्वान्ब्राह्मणा-च्छंस्येतामहरहः शंसति यत्सोम आ सुते नर इत्यछावाकस्येन्द्रा ग्नी अजो-हवुरितीन्द्रा ग्नी एवैतयाहरहर्निह्वयन्ते न हैषां विहवेऽन्य इन्द्रा ग्नी वृङ्क्ते यत्रैवं विद्वानछावाक एतामहरहः शंसति ता वा एताः स्वर्गस्य लोकस्य नावः
सम्पारिण्यः स्वर्गमेवैताभिर्लोकमभिसंतरन्ति ६